________________
Shri Mahavir Jain Aradhana Kendra
(490)
www.kobatirth.org
श्री योग ग्रंथ - सविवेयन.
न त्वं देहो न ते देहो भोक्ता कर्त्ता न वा भवान् । चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर ॥ रागद्वेषौ मनोधर्मो न मनस्ते कदाचन । निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर ॥ इदं कृतमिदं नेति द्वन्द्वैर्मुक्तंमनो यदा । धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ॥ यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा । न च ज्ञानी न वा योगी केवलं दुःखभागसौ ॥ धर्मार्थकाममोक्षेषु जीविते मरणे तथा । कस्याप्युदारचित्तस्य हेयोपादेयता न हि ॥ कृतं देहेन कर्मेदं न मया शुद्धरूपिणा । इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ॥ यस्यान्तः स्यादहंकारो कुर्वन्नपि करोति सः । निरहंकार धीरेण न किञ्चिदकृतं कृतम् ॥ अप्रयत्नात्प्रयत्नाद्वा मूढो नाप्नोति निवृतिम् । तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ॥ यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः । शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥ स्वातन्त्र्यारसुखमाप्नोति स्वातंत्र्यालभते परम् । स्वातंत्र्यान्निर्वृतिं गच्छेत् स्वातंत्र्यात्परमं सुखम् ॥ अकुर्वन्नपि संक्षोभात् व्यग्रः सर्वत्र मूढधीः । कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir