________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्पदृसंस्थितेनाऽयं, बुद्धिसागरसूरिणा। धियापरोपकारिण्या, कर्मयोगोविनिर्मितः ॥ १० ॥ अशेषजीवार्थविबोधभानु, य॑धायियेनात्मपरायणेन । भव्यात्मनां सिद्धिविधानदक्षोविवेचनाढ्यः शुभकर्मयोगः ॥११॥ सत्कर्मयोगप्रगतिविधाय, निर्मानमोहाभुविभव्यजीवाः। निजात्मभावं सुतरां प्रयान्तु, माङ्गल्यमालाञ्चविशेषभक्त्या ॥१२॥ भवाक्षि वाद्धर्यशशाङ्क संमिते, संवत्सरे माघयुतेसुमासे । तिथौशुभायां विपौर्णमास्यां, जगौसमाप्तिं कृतिरीदृशीयम् ॥१३॥
संवत् १९७३ माघ शुक्लपूर्णिमायां प्रथमप्रहरे शुभघटिकायां श्री वीरप्रभुपट्टपरंपरानेकगुणगणालंकृत श्वेताम्बर तपोगच्छश श्रीहीरविजय सूरीश्वरपट्टपरंपरागतसागर गच्छाधिपतिक्रियोद्धारक श्री नेमिसागरमुनीश्वरशिष्यचारित्रचूडामाण श्रीरविसागरमुनीश्वरतच्छिष्य श्रीमान गुरु सुखसागरजी तत्पट्टधारक जैनाचार्य बुद्धिसागरसूरिचित कर्मयोगविवेचनं समाप्तम् ॥ ॐ ३ शान्तिः ३
For Private And Personal Use Only