________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ए
.
महेन्द्रसूरि
तेन चार्डासने दत्ते-ऽप्रजेनोपाविशत् तदा । ऊचे च पूज्य एव त्वममुं यो धर्ममाश्रयः
॥९८ ।।
तमुवाच ततः श्रीमान् , धनपालः श्रियां निधिः । प्रतिपन्नो मया जैन-धर्मः सद्गतिहेतवे ॥ १११ ॥
( २६ ) ततः श्रीमन्महावीर-चैत्यं गत्त्वा ननाम च । वीतरागनमस्कार, श्लोकयुग्मेन सोऽब्रवीत् ॥११२ ॥
( २७ ) अन्यदा पूर्णिमासंध्या-समये नृपमब्रवीत् । जैनदर्शनसंचार-हेतवे देशमध्यतः ॥ ११५ ॥ राजॅस्तव यशोज्योत्स्नाधवलाम्बरविस्तरः । प्रकटस्तमसो हन्ता, भूयादर्थप्रकाशकः ॥ ११६ ॥
( २८ ) एकदा नृपतिः स्मार्त्त-कथाविस्तरनिस्तुषः । वयस्यमवदज्जैन-कथां श्रावय कामपि ॥१९४॥
(२९) द्वादशाथ सहस्राणि ग्रन्थमानेन तां ततः । परिपूर्य ततो विद्वत्समूहैरवधारिताम् ॥१९५॥
(३०) यथार्थां काव्यदोषोद्धारिणी तिलकमञ्जरीम् । ( ?) रसेन कवितारूपचक्षु मल्यदायिनीम् ॥ १९६ ॥
( ३१ ) विद्वज्जनास्यकर्पूर-पूराभां वर्णसंभृताम् । सुधीविरचयांचक्रे, कथां नवरसप्रथाम् ॥ १९७ ॥
त्रिभिर्विशेषकम् ।
For Private And Personal Use Only