________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयं परिशिष्टम् ।।
( महेन्द्रसूरिचरित्रगतोपयुक्तपद्यानि)
(१) तस्य श्रीसर्वदेवाख्यः, सूनुरन्यूनविक्रमः । ब्राह्मणनिष्ठया यस्य, तुष्टाः शिष्टा विशिष्टया
॥१०॥
तस्य पुत्रद्वयं जज्ञे विज्ञेशैरर्चितक्रमम् । आद्यः श्रीधनपालाख्यो द्वितीयः शोभनः पुनः ॥ ११ ॥
(३) चत्वारिंशत्सुवर्णस्य, टंकलक्षा विनिर्ययुः । दृष्टेऽपि नि:स्पृहोत्तंसः, सूरिः स्वोपाश्रयं ययौ ॥२८ ॥
( ४ ) श्रीमतः सर्वदेवस्य, श्रीमहेन्द्रप्रभोस्तथा । दानग्रहणयोर्वादो वर्ष यावत्तदाऽभवत्
॥ २९ ॥
॥ ३० ॥
अन्यदा सत्यसन्धत्वाद्, ब्राह्मणः सूरिमाह च । देयद्रव्येऽत्र ते दत्ते, स्वगृहं प्रविशाम्यहम्
(६) सूरिः प्राहाभिरुचितं, ग्रहीष्ये वचनं मम । भवत्विदं ततो मित्रं ! गृहाण त्वं द्विजोऽवदत्
॥ ३१ ॥
For Private And Personal Use Only