________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशिष्टपद्यानिः
१४ )
श्रीनेमिजिनस्तुतिः। चिक्षेपोर्जितराजकं रणमुखे यो लक्ष्यसंख्यं क्षणा
दक्षामं जन ! भासमानमहसं राजीमतीतापदम् । तं नेमि नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहसं राजीमतीतापदम् ॥ ८५ ।।
शार्दूलविक्रीडितम् । ( १५)
अम्बादेव्याः स्तुतिः। हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद्
विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्-- विश्वासे वितताम्रपादपरताऽम्बा चारिपुत्राऽसकृत् ॥ ८८ ॥
शार्दूलविक्रीडितम् ।
— ( १६)
श्रीपार्श्वनाथस्तुतिः । मालामालानबाहुर्दधददधदरं यामुदारा मुदारा
ल्लीनाऽलीनामिहाली मधुरमधुरसां सूचितोमाचितो मा। पातात् पातात् स पार्थो रुचिररुचिरदो देवराजीवराजी
पत्राऽऽपत्त्रा यदीया तनुरतनुरवो नन्दको नोदको नो॥ ८९ ।।
स्रग्धरावृत्तम् ।
जिनेन्द्राणां स्तुतिः। राजी राजीववक्त्रा तरलतरलसत्केतुरङ्गत्तुरङ्गव्यालव्यालग्नयोधाचितरचितरणे भीतिहृद् याऽतिहृद्या ।
For Private And Personal Use Only