________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशिष्ठपद्यानिः
( ७ )
सिद्धान्तस्तुतिः । सिद्धान्तः स्ताद् अहितहतयेऽख्यापयद् यं जिनेन्द्रः
सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलुकैर्यं च मोदाद् विहायः
सद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥ ३१ ॥
मन्दाक्रान्ता ।
श्रीजिनेन्द्राणां स्तुतिः । जिनवरततिर्जीवालीनामकारणवत्सलाs
समदमहिताऽमारा दिष्टासमानवराऽजया । नमदमतभुक्पङ्कत्या नूता तनोतु मतिं ममाऽसमदमहितामारादिष्टा समानवराजया ॥ ४२ ॥
हरिणीछन्दः ।
जिनभारत्याः स्वरूपम् । नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा
ऽपापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृद्या हितानि । वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान मेऽपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि ॥४७॥
स्रग्धरावृत्तम् । (१०)
समस्तजिनवराणां स्तुतिः । सदानवसुराजिता असमरा जिना भीरदाः, क्रियासु रुचितासु ते सकलभारतीरा यताः ।
For Private And Personal Use Only