________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
द्वितीयं परिशिष्टम् ।
(जिनस्तुतेर्विशिष्टपद्यानि )
श्रीशोभनमुनिप्रणीता सम्पूर्णा जिनचतुर्विंशतिका कृतिर्विविधञ्छन्दोऽलङ्कारविभूषितपद्यात्मिकाऽस्ति तत्राऽपि प्रतिभाशालिनां चमत्कृतिकारकाणि कानिचिद् विशिष्टपद्यान्यत्र प्रदर्श्यन्ते
( १ ) श्री ऋषभजिनस्तुतिः । भव्याम्भोजविबोधनैकतरणे ! विस्तारिकर्मावलीरम्भासामज ! नाभिनन्दन ! महानष्टापदाभासुरैः । भक्त्या वन्दितपादपद्म ! विदुषां संपादय प्रोज्झितारम्भासाम ! जनाभिनन्दन ! महान्, अष्टापदाभासुरैः ॥ १ ॥
शार्दूलविक्रीडितम् ।
( २ ) श्री रोहिणीस्तुतिः । विशिखशङ्खजुषा धनुषाऽस्तसत्सुरभिया ततनुन्नमहारिणा ।
परिगतां विशदामिह रोहिणीं
सुरभियाततनुं नम हारिणा
( ३ )
समस्तजिनवरप्रार्थना |
Acharya Shri Kailassagarsuri Gyanmandir
विधुतारा ! विधुताराः !
For Private And Personal Use Only
॥ १६ ॥
द्रुतविलम्बितम् ।
सदा सदाना ! जिना ! जिताघाताघा: ? ।