________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८६ ) अथ प्रशस्तिःयस्यासन् गुरवोऽत्र जीतविजयाः प्राज्ञाः प्रकृष्टाशया
भ्राजन्ते सनया नयादिविजयाः प्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सम पद्मविजयो जातः सुधीः सोदरः, सोऽयं न्यायविशारदः स्म तनुते विज्ञः स्तुतीरर्हताम् ॥१॥
शार्दूल. कृत्वा स्तुतिस्रजमिमां, यदवापि शुभाशयान्मया कुशलम् । तेन मम जन्मवीजे, रागद्वेषौ विलीयेताम् ॥ २॥--आर्या० सूर्याचन्द्रमसौ यावदुदयेते नभस्तले । तावनन्दत्वयं ग्रन्थो, वाच्यमानो विचक्षणैः ॥३॥-अनु०
For Private And Personal Use Only