________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १६६ )
मिथ्यात्वं हरदूर्जितं शुचिकथं पूर्णं पदानां मिथः, सङ्गत्या गमभङ्गमानसहितं हृद्यप्रभा ! विश्रुतम् ॥ ३ ॥ या जाड्यं हरते स्मृताऽपि भगवत्यम्भोरुहे विस्फुरतसौभाग्या श्रयतां हिता निदधती पुण्यप्रभाविक्रमौ । वाग्देवी वितनोतु वो जिनमतं प्रोल्लासयन्ती सदाऽसौभाग्याऽऽश्रयतां हितानि दधती पुण्यप्रभावि क्रमौ || ४ ||
२ श्री अजितजिनस्तुतयः ।
मुनिततिरपि यं + न सय ( शीर्ण ) मोहा शमजितमारमदं भवन्दिताऽऽपत् । भज तमिह जयन्तमाप्तुमीशं
*
शमजितमारमदम्भवन् ! दितापत् ||१|| " पुष्पिताग्रा०
हर रुचिर ! ददजिनौघ ! तं द्राक् परमतमोहर ! यं भयानि दानम् ।
+ नियतमुपगता भवे लभन्ते
परमतमोहरयं भया निदानम् ॥ २ ॥
नयगहनमतिस्फुटानुयोगं,
जिनमतमुद्यतमानसा ! धुतारम् ।
Acharya Shri Kailassagarsuri Gyanmandir
जननभयजिहासया निरस्ता
जि नमत मुद्यतमानसाधुतारम् || ३ ||
*
+ निरस्तमोहा ' इति ख- पाठः ।
नारलगा नजत्रा अपर-
वक्त्रम्, गान्तं पुष्पिताया । पूर्वार्धोत्तरार्धयोः पौर्वापर्यविपर्ययः ख
प्रत्याम् ।
For Private And Personal Use Only