________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६१ )
श्री अम्बिकादेव्याः स्तुतिः --
सरभसनतनाकिनारीजनोरोजपीठीलुठतारहारस्फुरद्रश्मिसाक्रमाम्भोरुहे ?, परमव सुतराङ्गजाऽऽरावसन्नाशितारातिभाराऽजिते भासिनी हारतारा बलक्षेमदा । क्षणरुचिरुचिरोरुचश्च त्सटासङ्कटोत्कृष्ट
कण्ठोद्भटे संस्थिते ! भव्यलोकं त्वमम्बाऽम्बिके !, परमवसुतरां गजारावसन्ना शितारातिभा
राजिते ! भासि नीहारतारावलक्षेमदा ॥ ९६ ॥ टीका - सरभसेति । ' सरभसनतनाकिनारीजनोरोजपीठीलुठत्तारहारस्फुरद्रश्मिसार क्रमाम्भोरुहे ! ' सरभसं - रभसेन- रंहसा सहितं यस्मिन्कर्मणि यथा तथा नतः - प्रणतो यो नाकिनारीजनःनाकिनां नार्यस्तासां जनः -- :- समूहः तस्योरोज पीठीषु - रतनपर्यङ्किकासु लुठतां तारहाराणां स्फुरद्धी रश्मिभिः सारे - कर्बुरे क्रमाम्भोरुहेचरणकमले यस्याः सा तत्सम्बोधनम् । सार: शबलवातयोः " इति विश्वः । ' अजिते ।' केनाऽप्यनभिभूते । ' क्षणरुचिरुचिरोरुचञ्चत्सटासङ्कटोत्कृष्ट कण्ठोद्भटे ' क्षणरुचिरुचिराभिः - क्षणा रुचियस्याः सा क्षणरुचिस्तडित्तद्वद्रुचिराः उज्वलास्ताभि:
66
विद्युद्दीप्ताभिः उरुभिश्चञ्चन्तीभिः सटाभिः सङ्कट उत्कृष्टो यः कण्ठस्तेनोद्भटः- करालस्तस्मिन् ' राजिते ' शोभिते । • भासि दीप्तिमति - तेजस्विनि । ' नीहारतारावलक्षे ' नीहारो हिमं, तारानक्षत्राणि तद्वद्द्वलक्षः - धवलः तस्मिन् " अवश्यायस्तु तुहिनं, प्रालेयं मिहिकाहिमम् । स्यान्नीहारस्तुपारच हिमानी तु महद्धिमम् इति हैम: । “ अवदातगौरशुभ्र-वलक्षघवलार्जुनाः " इति हैमः ।
२१
For Private And Personal Use Only
"1