________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १४३ પણ ક્ષેભ નહીં પામનારી, તથા પ્રણામ કરાવવા વડે તેમના માનને ભેદનારી, અજ્ઞાનરૂપી અંધકારને સદા હરનારી એવી હે નાથ ! તારી દેશનારૂપી વાણુ મહારા અંતર શત્રુઓને સંહાર કરનારી થાઓ છે ૮૭ |
अंबादेव्याः स्तुतिःहस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद्
विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्विश्वासे वितताम्र पादपरताम्बा चारिपुत्राऽसकृत् ।। ८८॥
टीका-हस्तेति-' यस्याः' अम्बायाः । 'जनः ' लोकः । • विश्वासे वितताम्रपादपरतां' विश्वेन-जगता, आसेवितयोः ताम्रयोः रक्तयोः पादयोः-क्रमयोः-परतां-तदेकशरणताम् । ' अभ्यागमत् ' जगाम । ' सा' प्रसिद्धा देवी । — हस्तालम्बितचूतलुम्बिलतिका' हस्ते-करे आलम्बिता-गृहीता, चूतस्याऽऽम्रस्य लुम्बिरेव लतिकाशाखा यया सा। " शिखा शाखा लताः समाः ” इति हैमः। 'वाचा' गिरा। 'रिपुत्रासकृत् ' रिपूणां-वैरिणां त्रासं-भयमाकस्मिकं भयं वा करोतीति रिपुत्रासकृत् । ' अर्जुनरुचिः' अर्जुनंकनकं तद्वदुचिः-कान्तिर्यस्याः सा । "तपनीय चामीकरचन्द्रभर्माऽर्जुननिष्ककार्तस्वरकवुराणि” इति हैमः । ' उल्लसद्विश्वासे' उल्लसतीति, उल्लसन्-जाग्रविश्वासो-विश्रम्भो यस्य तस्मिन् । 'सिंहे' केसरिणि । अधिरूढा-आसीना । — वितताऽऽम्रपादपरता' विततो विस्तीर्णो यः पादै:-मूलैः पिबतीति पादपश्चततरुस्तस्मिन् रता-आसक्तमानसा । ' चारिपुत्रा' चरत इत्येवं शीलौ चारिणौ-विहरणशीलौ पुत्रौ यस्याः सा । ' अम्बा' अम्बिकादेवी । 'नः' अस्मा
For Private And Personal Use Only