________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १३५) टीका-जलेति-'अहो !' इत्यामन्त्रणे । (भव्याः!) 'अपातापदघनगरीयानसुमतः' पात:-च्यवनं, न विद्यते पातश्च आपस अघं च पापं यस्यां सा अपातापदघा सा चासौ नगरी च अपातापदघनगरी-युक्त्या मुक्तिरेव तस्यां यानं-प्रयाणं तस्मिन् सुमतःसुष्ठुसंमतः, इदं विशेषणं वाहस्यापि योजनीयम् । 'गुरुः' गृणाति हिताऽहितमिति गुरुः-महान् । वाहः-वाह्यत इति वाहः वाह इव वाहः तुरगः वाहो हि ग्रामादिगमने सुमतः । " वाहो वाजी हयो हरिः” इति हैमः। 'स्फुटविकटहेतुप्रमितिभाक्' प्रमितयःप्रमाणानि, हेतवश्व-कारणानि ते च प्रमितयश्च हेतुप्रमितयः, स्फुटा:-अविसंवादिनः शब्दतः विकटा:-अतिगम्भीराः अर्थगहनत्वाद् । अक्लिष्टा इति यावत् । या हेतुप्रमितयस्ता भजते यः सः । 'ऊरुः,' विशालः । 'पाता,' पातीति पाता-बायकः । दुर्गतिपतनात्प्राणिनां रक्षकत्त्वात् ' पदघनगरीयान् ' धनः-अर्थनिबिडः, गरीयान्-महत्त्वाऽतिरेकेण युक्तः । पदेषु-वाक्याऽवयवेषु पद वा घनश्च गरीयांश्च । 'वा' वाशब्दश्चकारार्थे । कृतान्तः कृतः अन्तो य निश्चयो यस्य सः-सिद्धान्तः । “ अन्तः स्वरूपे निकटे, प्रान्ते निश्चयनाशयोः। अवयवेऽपि " इति हैमः । ' असुमतः' असवः-प्राणा विद्यन्ते येषां तान् । प्राणिनः । ' जलव्यालव्याघ्रज्वलनगजरुकबन्धनयुधः ' व्यालो-भुजङ्गः रुक्-रोगो जलोदरादिः, बन्धनं-कारादिनिरोधः, युत्-संग्रामः, जलं च समुद्रादि व्यालश्च व्याघ्रश्च ज्वलनश्च गजश्च रुक् च बन्धनं च युच्च तेषां समाहारस्तस्माजलादेरुपसर्गात्, अर्थादष्टभयेभ्यः 'त्रासीष्ट' रक्षितात् । त्रैङ्पालने धातोराशिषकर्तर्यात्मनेपदीयप्रथमपुरुषैकवचने सीष्टप्रत्यये 'आत्सन्ध्यक्षरस्य ' (सिद्ध० है० ४-१-१) इति आत्वम् ।।८३॥
-
For Private And Personal Use Only