________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२०) जिनेश्वराणां स्तुतिः। जवाद्गतं जगदवतो वपुर्व्यथा
कदम्बकैरवशतपत्रसं पदम् । जिनोत्तमान् स्तुत दधतः स्रज स्फुरत्
कदम्बकैरवशतपत्रसम्पदम् ।। ७४ ।। जवादिति-वपुयथाकदम्बकैः' वपुषः-शरीरस्य व्यथानांपीडानां कदम्बकैर्वृन्दैः । “ वृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः” इति हैमः ' अवशतपत्रसं' अवशाः-पराधीनाः तपन्तः तापमनुभवन्तः त्रसाः सत्त्वा-यस्मिन् तत् । ' पदं ' स्थानं-नरकादिकम् । ' गतं ' प्राप्तम् । 'जगत् ' विश्वम् । 'जवात् ' वेगात् । " जवोवेगस्त्वरिस्तूर्णिः” इत्यमरः। ' अवतः' रक्षतः । ' स्फुरत्कदम्बकैरवशतपत्रसंपदं ' स्फुरन्ती कदम्बानां-नीपानां कैरवाणांकुमुदानां शतपत्राणां-कमलानाञ्च सम्पत्-समृद्धिर्यस्यां वा यस्याः सा ताम् । " नीपः कदम्बः शालस्तु" । " श्वेते तु तत्र कुमुदं, कैरवं गर्दभाह्वयम्” इति हैमः। “ सहस्रपत्रं कमलं, शतपत्रं कुशेशयम्"। इत्यमरः । ' स्र' कुसुममालाम् । 'दधतः' धारयतः। 'जिनोत्तमान् ' जिनेन्द्रान् । ' स्तुत ' प्रणत ' ष्टु' स्तुतावितिधातोराशी:प्रेरणयोरिति मध्यमपुरुषबहुवचनम् ।। ७४ ।।
निद्रानी स्तुतिલોકાર્થ–દેહ સંબંધી પીડાઓના સમૂહોવડે પરતંત્રપરાધીન, ( અત્યંત ) સંતાપનો અનુભવ કરનારા જ છે જેને વિષે એવા ( નરકાદિક ચાર ગતિએ વડે લક્ષિત ) પદને પ્રાપ્ત થયેલા વિશ્વનું વેગવડે રક્ષણ કરનારા એવા, તેમજ વિકસ્વર છે કદંબ, કૈરવ અને શતપત્ર-કમલ સંબંધી સંપત્તિ જેને વિષે એવી પુષ્પોની માળાને ધારણ કરનારા એવા જીનેશ્વરની ( मल्यो ! ) तमे स्तुति ४२॥ ॥ ७४ ॥
For Private And Personal Use Only