________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्मिन्-महाभवाब्धौ भवन्तीतिभवा स्ताश्चता भीतयस्तासां विभेदिभेदनशीलम् । · परास्तविस्फुरत्परमतमोहमानं' परास्ताः-विक्षिप्ताः विस्फुरन्तःपरमतानि च सौगतादिमतानि मोहश्चमानश्च परमतमोहमानाः येन तत् । (यद्वा मोहादज्ञानान्मानो-मिथ्याभिनिवेशः, परमतानां मोहमानौ वा) 'अतनूनं तनु च-स्वल्पं ऊनञ्च-अपूर्ण यन्न भवति तत् अतनूनम् । अलं' अत्यर्थं । 'घन' निविडं-प्रमेयेन गहनं 'अघवते' अघं विद्यतेऽस्येत्यघवान् तस्मै, 'तदस्यास्त्यस्मि' निति (सिद्ध० ७-२-१) मतुः हितसुखाभ्याम् (सि० २-२-६५) इति हितयोगे चतुर्थी, पापिने । ' हितं ' श्रेयःप्रदम् । · अपारमामरनिर्वृतिशर्मकारणं' अपाराणि न विद्यते पारोऽवसानं येषां तानि-अपर्यन्तानि यानि मानाममराणाञ्च निर्वृतेश्च–निर्वाणस्य सम्बन्धीनि शर्माणि-सुखानि तेषां कारणं-हेतुः तत्त्वज्ञानसंपादनेन मोक्षोत्पादकत्त्वात् । ‘परमतमोहं' परमं-प्रकृष्टं तमो-मोहं हन्ति यत्तत्, यद्वा परमतमा-अतिशयेन परमा ऊहास्तर्का यस्मिस्तत् । 'अलङ्घनमघवता' न विद्यते लङ्घनं-अभिभवो यस्य तेन मघवता-महेन्द्रेण सामर्थ्यादच्युत-स्वर्गनाथेनेत्यर्थः। ' ईहितं ' अभिलषितम् । 'जिनपतिमतं' जिनानां पतयस्तेषां मतं-सर्वज्ञप्रवचनम् । — नूनं' निश्चयेन । ' आनमत ' प्रणमत, यूयमितिशेषः । आपूर्वकात् ' णमं' प्रह्वत्वे धातोराशी:प्रेरणयोरिति मध्यमपुरुपबहुवचनम् ॥ ७१ ॥
જિન આગમને પ્રસુતિ– લોકાર્થ–ભયંકર અને મહાન એવા સંસાર સમુદ્રમાંથી ઉત્પન્ન થતા ભયને ભેદનારા, વળી દૂર કયા છે સ્કુરાયમાન એવા અન્યમ-બદ્ધાદિ મતો, મોહ અને અભિમાન તે જેણે, (અથવા નાશ કર્યો છે કુરાયમાન અન્ય દર્શનોના મહને અને ગર્વનો જેણે, અથવા દળી નાખે છે કુરાયમાન એવો અન્ય મતોને
For Private And Personal Use Only