________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०८ ) इयत्ता मानमितियावत् , यस्मात्स तं-विगतप्रमाणम् । “ मुद्रा माने च निष्के च, पिधाने चाङ्गुलीयके । लिप्यां चाङ्गुलिविन्यासे, आकृतौ कर्णभूषणे ॥ १ ॥ संकोचने च " इति शब्दसिन्धुः । ‘जैनचन्द्र' जिनचन्द्रसम्बन्धिनं । 'चकासत्कविपदगमभङ्ग' चकासन्तःशोभमानाः, कविपदानि-कवेरुत्प्रेक्षाद्यलङ्कारव्यङ्गयसूचकानि पदानि कविपदानि-कवियोग्यशब्दाः, गमाः-सदृशपाठाः, भङ्गाश्च-एकद्विज्यादिपदसंयोगादुत्पन्नाः विकल्पत्राता यस्मिन् तं । ' हेतुदन्तं ' हेतवः दृष्टान्ता एव प्रतिपक्षभेदकत्वात् दन्तौ-विषाणौ यस्य तम् । ' समुद्यद्दानमार्ग' समुद्यन्-समुल्लसन दानमार्गो-ज्ञानादीनां वितरणक्रमो यस्मिन् तम् । सम्यग्ज्ञानेन मोक्षप्रदायकत्त्वात् ' धुताधैकविपदगं' अघा एवैकविपदस्तएव अगास्तरवो धता येन सः तम् । धुतः-नाशितः अघः-पापं यस्य तत् तथाभूतमेकमद्वितीयं विशिष्टं पदं-स्थानं तत् प्रतिगच्छतीति धुताधैकविपदगस्तमिति वा । ' अभङ्ग' न विद्यते भङ्गो यस्य तं । अजेयं — कृतान्तं ' अन्तकम् । मरणमिति यावत् । “ कृतान्तो यमसिद्धान्तेऽ-शुभे कर्मणि च द्विके । दैवे पापे भरण्यां च, शनिश्चरग्रहे तथा" ॥१॥ इति शब्दसिन्धुः। 'तुदन्तं' पीडयन्तम् । एतत्प्रतिपादिताऽनुष्ठानविधायकजनस्य भवग्रहणाभावान्मरणाभावः । ' कृतान्तं ' सिद्धान्तम् । 'द्विरदमिव ' गजमिव । ' स्मरत' ध्यायत । ' स्मृ' चिन्तायामितिधातोः कर्तरि परस्मैपदे लोटोमध्यमपुरुषबहुवचनम् । यूयमितिशेषः । अत्र द्विरदेन सह श्लेषः, सोऽपि विगतमुद्रः-अपेतमर्यादः स्वच्छन्दचारी भवति । तस्याऽपि पदगमभङ्गाः कवेः वर्णयितुं योग्या:-पदप्रचारक्रमाश्चकासति । दन्ताश्च भवन्ति । दानमार्गः-मदप्रवाहः समुदेति, सोऽपि अगंवृक्षं धुनोति, अभङ्गश्च, कृतान्तं-कृतनाशं विपक्षादिकं तुदति, तदेवं द्विरदमिव हे भव्याः ? जैनचन्द्रं कृतान्तं स्मरतेत्यन्वयः ।।६७॥
For Private And Personal Use Only