________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९६ ) विभ्रत्याऽमरसेव्यया जिनपते ! श्रीशान्तिनाथास्मरो
द्रेकोपद्रुत! जातरूप! विभया तन्वार्यधी रक्ष माम् ॥६१॥
राजन्त्येति-' नवपद्मरागरुचिरैः' नवं नूतनं यत्पमं कमलं तस्य यो रागो-रक्तिमा, यद्वा नवः प्रत्यग्रो यः पद्मरागो मणिस्तद्वद्रुचिरैश्चारुभिः, माञ्जिष्ठवर्णत्वात् । “शोणरत्नं लोहितकं (कः) पद्मरागोऽथ मौक्तिकम् ।" इत्यमरः। ' पादै :' चरणैः । प्रत्यन्तपर्वतैश्च, भगवत्पक्षे पादैरितिबहुवचनं मानार्थत्वात् , प्राचीनाचार्यैस्तथाविधाः प्रयोगाः स्वीकृताः, “ भवदङ्घिसरोरुहाणां” (क० श्लो० ४२) "पादो मूलेऽस्रतुर्यांशाऽविषु प्रत्यन्तपर्वते"। इति हैमः ‘राजन्त्या' विभ्राजमानया । ' द्रुतजातरूपविभया' द्रुतं-विलीनं यत् जातरूपंकनकं तद्वत् विभा-प्रभा यस्याः सा तया। “द्रुतं शीघे च विद्राणे, विलीने शीघ्रगे त्रिषु” इतिविश्व० " चामीकरं जातरूपं, महारजतकाञ्चने” इत्यमरः । 'क्षमां' क्षान्ति । 'बिभ्रत्या' दधानया । 'अमरसेव्यया' अमरैर्देवैः सेव्या-सेवनीया तया । ' तन्वा' मूल् “ तनुर्देहत्वचोः स्त्रियाम् । तनु केशेऽपि विरले, स्वल्पमात्रेऽपि वाच्यवत् ” इतिविश्व० ' जिताष्टापदाद्रे !' जितस्तुलितोऽर्थादवगणितोऽष्टापदाऽद्रिः-सुवर्णगिरिर्येन सः तस्यामन्त्रणम् । " अष्टापदं सारिफले, क्लीबमस्त्री तु काश्चने । शरभे मर्कटे पुंसि, चन्द्रमल्ल्यां स्त्रियामपि” विश्व० । उक्तञ्च-जिनागमे नामषोडशकम्। मन्दरो गिरिराजश्च, मेरुमनोरमस्तथा । स्वयंप्रभो लोकमध्यो, रत्नोच्चयः शिलोच्चयः॥ १ ॥ सुदर्शनश्च नाभीच, सूर्या वर्तश्च उत्तमः । सूर्यावर्णस्तथा अच्छो,-दिगादिरवतंसकः ॥ २ ॥ ' अकोप !' न विद्यते कोपो यस्य स तत्संबोधने हे क्रोधविमुक्त ! · आर्य ! ( अर्थ ! ) स्वामिन् ! श्रेष्ठ ! " अर्यः स्वामिवैश्ययोः । पुंस्यायः सौविदल्ले, स्यादार्यस्त्वभ्यर्हिते” । इति
For Private And Personal Use Only