________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ७९ ) इति कर्मण्यणि कृते वृद्धावनिष्टं स्यादतो रदन्तीति रदाः भियो रदा इति षष्ठीतत्पुरुषे ‘रद्' विलेखने धातोः 'पचाद्यचि' सिद्धम् । भयभिदः। 'सकलभाः ' सकला-सम्पूर्णा भा-प्रभा येषां ते। अथवा सह कलया मधुरया भया-दीप्त्या वर्तन्त इति सकलभाः। “ स्युः प्रभारुक् रुचिस्त्त्विड् भा” इत्यमरः । “ भा मयूखमहसी छविर्विभा” इति हैमः । सदानवसुराजिताः ' सदानं-सविसर्जनं यद्वसु-द्रव्यं तेन भूमिपालावस्थायां राजिताः-भूषिताः। सदा नवसु कमलेषु राजिता वा, नवसंख्यकाभिः सुष्टुराभिः स्वर्णपङ्कजै: "वसुस्त्वग्नौ, देवभेदे नृपे रुचि । योक्त्रे शुष्के वसु स्वादौ, (स्वर्णे) रत्ने वृद्धयौषधे धने " ॥ इति हैमः ' असमरा जिताभीरदाः' असममतुल्यं राजन्त इत्येवं शीला नाभी-नाभिः रदाश्च दशना येषां ते तथाभूताः ' सकलभारतीराः सकलाः-सह कलाभिर्वर्तन्त इति सकला:-'कल' क्षेपे इत्यस्माद्धातोः 'पचाद्यचि' कला इतिसिद्धम् सदोषाः-सांसारिककार्यरूपा ये भारास्तेषां पर्यन्तस्थितत्वात्-तीरास्तीरभूताः अथवा असकलादोषरहिता या भारत्यस्ता ईरयन्ति-रान्ति ( ददति ) वा ये ते तथा । 'यताः' धर्मोपदेशे वा संयमे यत्नं कुर्वाणाः, वशीकृतेन्द्रिया इत्यर्थः । जिनाः' वीतरागाः । ' रुचितासु' अभिप्रेतासु ।' उचितासु' योग्यासु । ' क्रियासु-कर्त्तव्येषु । " क्रिया कर्मणि चेष्टायां, करणे संप्रधारणे । उपायारम्भशिक्षाऽर्चा-चिकित्सानिष्कृतिष्वपि" इति विश्वः। भो भव्य ! ' ते ' तव । ' आयताः ' दीर्घाः ' रतीः' मुदः। ‘क्रियासुः ' विधेयासुः ॥ ५० ॥
સમસ્ત જિનેશ્વરેની સ્તુતિ લોકાર્થ–દાનવ અને દેવે વડે પણ નહિ જીતાયેલા, ( અર્થાત્ તેમણે કરેલા ઘર ઉપસર્ગોથી અપરાજીત ) વળી સંગ્રામથી વિમુખ, ભયને દૂર કરનાર, (અર્થાત્ પોતે નિર્ભય હોવાથી
For Private And Personal Use Only