________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५८ ) स्मरेति-'परिनुन्नजरारजोजननतानवतोदयमान् ' जरा-जीर्यतेऽनयेति जरा-विस्रसा, वयःक्षतिरूपा, रजः-कर्मरूपं, जननं-जन्म, तनोर्भावः तानवं-कृशता, तोदो-द्विविधं दुःखं, यमः-मृत्युराजस्तेषामितरेतरद्वन्द्वस्ते परिनुन्नाः-परिक्षिप्ता यैस्तान् “ संयमे यमजे धर्मराजे ध्वाङ्गे युगे यमः। इति विश्व । “यतः' यस्मात्कारणात् । परमनिर्वृतिशर्मकृतः' परमं च तन्निर्वृतेः शर्म च-निर्वाणसुखं कुर्वन्तीति परमनिर्वृतिशर्मकृतस्तान् । “ शिवं निःश्रेयसं श्रेयो-निर्वाणं ब्रह्मनिर्वृतिः" इति हैमः । 'नतान्' प्रह्वीभूतान् । ' अवतः ' त्रायमाणान् । 'जिनान् ' तीर्थङ्करान् । (हे) 'जन !' मानव ! ' अदयं' निर्दयं-स्वशरीरावयवरक्षानिरपेक्षं यथास्यात्तथा । ' आनतः ' प्रणतः सन् । ' त्वं ' ' अतः ' अस्मात् कारणात् । ' स्मर' चिन्तय ॥ अथवा ' यतः' यस्मात् । ( जिनाः ) अनिर्वृतिशर्मकृतः-न विद्यते निर्वृतिर्यस्य तत् अनिर्वृति-नाशरहितं शर्म कुर्वन्तीति-मोक्षसुखविधायकाः " निर्वृतिः सुस्थितासौख्य-निर्वाणाऽस्तङ्गमाऽध्वसु” इति विश्व० । ( भवन्ति ) अतः परं । अदयमानतः' दयतेऽसौ दयमानः न दयमानोऽदयमानस्तस्माददयमानत:-निर्दयजनात् । 'अवतः' अवन्तीति-अवन्तस्तानवतो-रक्षितन्-रक्षकान् । 'परिनुन्नजरारजोजननतानवतोदयमान ' ' जननतान् ' मानवैः प्रणतान् । ' जिनान्' ' स्मर' स्मृतिगोचरान कुरु ॥ ३८ ॥
જિનેશ્વરનું સ્મરણલેકાર્થ–નમસ્કાર કરનારા જીવોનું રક્ષણ કરનારા, વળી ६२ यो छ ०४२।-वृद्धावस्था, (४३थी ) २०४, सन्म, (हेडनी), કૃશતા–દુર્બળતા, બાધા-પીડા અને યમ-મૃત્યુ જેમણે એવા અને એજ માટે ઉત્તમ પ્રકારના મુક્તિસુખને આપનારા એવા જિનેશ્વરનું ( હે ભવ્યજન ! ) ઉપરોક્ત કારણને લીધે અદય-દયા
For Private And Personal Use Only