________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुभ्यमिति--(हे ) — चन्द्रप्रभ !' चन्द्रस्येव प्रभा-दीप्तियस्येति बहुव्रीहिस्तत्सम्बोधनम् । गर्भस्थेऽस्मिन् मातुश्चन्द्रपानदोहदोऽभूदितिचन्द्रप्रभनाम । जिनचरितेऽपि-" गर्भस्थेऽत्राभवन्मातुश्चन्द्रपानाय दोहदः । चन्द्राभश्चायमित्याह्व-दमुं चन्द्रप्रभं पिता" 'जिन !' जिनेन्द्र ! । ' तामसोज्जम्भितानां ' तामसानि-तमः सम्बन्धीनि यानि उज्जम्भितानि-प्रकटितानि तेषाम् । — हाने' त्याजने । ' कान्ताऽनलसम !' कान्तश्चासावनलश्च तेन समस्तत्सम्बोधने हे स्निग्धाग्निसदृश ! । 'दयावन् !' दयाऽस्याऽस्तीति तदामन्त्रणम् । 'दितायासमान ! ' दित आयासस्य खेदस्य मानो-दो येन सः ( अथवा दितौ खण्डितावाऽऽयासश्च मानश्च तो येन स तदामन्त्रणम् । ) 'प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त !' पृथवो-वितताः स्पष्टाः-स्फुटाः दृष्टान्ताः-निदर्शनानि हेतवः-कारणानि, ऊहा-वितर्काः, अनेकान्तः स्याद्वादः, पृथवः स्पष्टाः, दृष्टान्तहेतूहा यस्मिन् , स चासावनेकान्तश्च प्रकटितः पृथुस्पष्टदृष्टान्तहेतूहानेकान्तो येन तस्य सम्बोधनम् । यथा पर्वतो वह्निमानिति निश्चयार्थं महानसमिति दृष्टान्तः । धूमादिति हेतुः । स्थाणुर्वा पुरुषोवेति संशयाऽऽत्मक उहः। एकस्मिन् वस्तुनि विविधापेक्षया विरुद्धधर्माणामप्यविरुद्धतया स्त्रीकरणमनेकातन्तवादः । 'असमान!' अनन्य--सदृश। ' अनलसमदया' अलसश्च-आलस्यं मदश्च जात्यादिस्मयो न विद्यते यस्याः सा, अनलसमदा तया, अत्र यद्यपि अलसशब्देन धर्मी, आलस्य शब्देन च धर्मः, यदाह-" आलस्यः शीतकोऽलसोऽनुष्णः” इत्यमरः । तथा-आलस्यतन्द्राकौसीद्यमिति हैमवचनाच्च । तथाऽपि धर्मधर्मिणोः कथञ्चिदभेदादलसशब्देनाsप्यालस्यमेव प्रतिपाद्यमिति सर्वं समञ्जसम् । अथवा न विद्यतेऽलसमदौ यस्मिन्निति सं० या-लक्ष्मीस्तया वन्दिताय स्तुतायेति तुभ्यमित्यस्य वि. 'विद्वत्पफ्त्या' विदुषां श्रेण्या। 'वन्दिताय ' स्तुताय
For Private And Personal Use Only