________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २५ ) श्रीरोहिण्यै नमः।
विशिखशङ्खजुषा धनुषाऽस्तसत्
सुरभिया ततनुन्नमहारिणा । परिगतां विशदामिह रोहिणी,
सुरभियाततनुं नम हारिणा ॥ १६ ॥
विशिखशवेति- विशिखशङ्खजुषा' विशिखश्च शरः, शङ्खश्च तौ जुष्टे-जोषते भजते वा तेन शरकम्बुभाजा । ' अस्तसत्सुरभिया' अस्ता-विनाशिता, सन्तश्चते सुराश्चसत्सुरा इति कर्मधारयस्तेषां सत्सुराणामुत्तमाऽमराणां भीर्येन तत्तेन । 'ततनुन्नमहारिणा' तता-विस्तृताः नुन्नाः-प्रेरिताः निर्मलिताः महान्तोरयोवेगाः, अरयोवैरिणो वा येन तत्तेन । 'हारिणा' भव्येन । ' धनुषा' धन्यतेऽर्यते, धनतिशब्दायते ज्याघातेन वा धनुः । “ रुद्यतिजनितनिधनिमनिग्रन्थिपृतपित्रपिवपियजिप्रादिवेपिभ्य उस्” ( सि० उ० ९९७ । ) इत्युस् प्रत्ययो भवति तेन कार्मुकेण । 'परिगतां' मण्डितकरां । 'विशदां' शुभ्रवर्णां निर्मलां वा, शरीरमनसोर्निर्मलत्त्वात् । “ सुरभियाततर्नु' सुरभि-कामधेनुं याता-प्राप्ता तनुहोयस्यास्तां । सुष्ठु रभते सुरभिः " पदिपठि-” (सि० उणा ६०७ ) इति इ.” “ सुरभिर्गवि च स्त्रियाम्" इत्यमरः । चकाराद्वसन्तजातीफलचम्पकेषु ना । सुगन्धिमनोज्ञयोस्त्रिषु । सुवर्णपङ्कजे च क्लीवम् । “ सुरभिश्चम्पके चैत्रे, वसन्ते गन्धके कवौ। स्वर्णे जातीफले चाऽब्जे, त्रिपु मद्यसुगन्धयोः। ख्याते च स्त्री तु शलक्यां, सुरभी मातृभेदयोः ॥” इति मुक्तावल्याम् । 'रोहिणीं' रोहत्यवश्यं रोहिणी तां-देवीं । ' इह ' अस्मॅिल्लोके । ‘नम' प्रणिपत, ‘णमु' प्रह्रीभावे, इत्युकारेत्संज्ञिक
For Private And Personal Use Only