________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौतामागतवर्तमान समये कौटिल्यवैकल्पतो ॥ द्रव्यंप्राञ्जलमर्पयत्यविरतं पर्यायमात्रनवा ॥ संप्रत्यस्तिसुखादिरेवहितदाभासोप्यसौ सौगतः। तत्सर्वक्षणिकंतथागतगुणद्रव्यापलापीश्रुतः ॥३१॥ ॥ इति ऋजुसूत्रनयः॥ शदाख्यश्वनयोध्वनेरपिभवेत्कालादितोर्थस्यभित्॥ स्वर्णाद्रिस्त्वभवद्भविष्यतिभवत्पर्यायतीर्थाभिदा॥ भिन्नार्थलभतेनिरुक्तिभिदयापर्यायशब्देषुसः इन्द्रस्त्विन्दनतस्तथैवशकनाच्छकश्वतदर्शनम् ॥३२॥ यथेंदशकइत्याद्याः शब्दाभिन्नाभिधेयकाः भिन्नशब्दत्वतः कुंभस्तदाभासस्तुरंगवत् ॥ इति शब्दनयः पर्याय शब्देषु निरुक्ति भेदा दर्थं च भिन्नं प्रवदन्ति विज्ञाः॥ गुण क्रिया शब्द विशेषतोपि तथा तदाभास इतीह वृद्धाः ॥ ३४॥ एवंभूतनयः क्रियाश्रितविधेशदस्यवाच्यक्रियाविष्टार्थप्रकटीकरोतिकिलगौरश्वश्वतदर्शनम् चेष्टाशून्यमिदंघटाख्यमितितत्तस्माद्घटादे किया शून्यत्वात्पटवत्त्वनेनवचसाभासस्त्वदीयोभवेत्॥३५॥
For Private And Personal Use Only