________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
साध्य साधन यो व्यत्याद्यालंबन मिदंहियत् अन्वयव्यतिरेकाभ्यां संवेदन मुदीरितम् ॥ १२ ॥ साध्य साधनयोर्नित्यं कालत्रितयवर्तिनोः संबंधो व्याप्तिरित्येवाविनाभावितयोच्यते ॥ १३ ॥ अप्रत्यक्ष पदार्थस्य कथं प्रामाण्य निर्णयः अर्थ क्रियाभिसंवादादनुमानेन निर्णयः ॥ १४ ॥ अथानुमानं द्विविधं वदन्ति स्वार्थपरार्थं ह्युपचारतोपि स्वस्मैहितं स्वार्थमिदं सुधीभि रन्यत्परस्मैप्रतिपाद्यमानम् ॥ १५ ॥
॥ स्वार्थ स्वहेतु ग्रहण व्याप्ति स्मरण पूर्वकम् ॥ यदेव साध्य विज्ञान मनुमानं तदेवहि || १६ || अप्रतीतमनिराकृतमेतत् साध्यमेवयदभीप्सितमत्र | व्याप्ति पक्षसमयोदित साध्यं तद्विकल्पवशतोपिचमानात् ॥ १७ ॥ साध्यंयदविनाभाव साधनं यत्र लक्षणम् अन्यथानुपपत्त्यैक लक्षणं यत्र साधनम् ॥ १८ ॥ यावान्कश्चिदयं सधूमनिकरः सत्येववह्नौ भवेत् यत्सत्वेप्रथमोन्वयोनिगदितोयत्सत्वमेवोभयम्
For Private And Personal Use Only