________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ द्वितीय स्तबकः॥ अथ द्वितीयं प्रतिपाद्यमानाs. स्पष्टत्वभावाभिमतं परोक्षं ॥ आद्ये परोक्षे हिमति श्रुते हे सैद्धान्तिकास्तावदिदं वदन्ति ॥१॥ स्मरणं १ प्रत्यभिजानं २ तर्कोऽ३ थानुमितिः ४ श्रुतं ५ परोक्षं पंचधा पाहु भूरयः पूर्व सूरयः ॥२॥ मानार्पिता या प्रसभंप्रतीता प्रतीतिरेवानुभवः प्रतीतः॥ क्रमोत्तरं कारण माहुरेषाम् क्रमोप्यमीषामय मेवसिद्धः॥३॥ संस्कार बोधोदित कारणेन तथानुभूतार्थक गोचरंयत् तच्छदमात्रोल्लिखन स्वरूपं विज्ञान मेतत्स्मरणं परोक्षम् ॥ ४॥ स्मृतं तथैवोपमितं वितर्कितम् । पुनस्तथैवानुमितं श्रुतश्रुतम् प्रत्यक्षतोवापि धृतं पुरा यत् सर्वज्ञ विवं स्मरणे निदर्शनम् ॥ ५॥
For Private And Personal Use Only