________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संशयः संकरो वैय-धिकरण्यानवस्थिती॥ अप्रतिपत्तिर्विषय व्यवस्थाहानिरित्यमी ॥ ३२ ॥ यत्कार्यकारणतयापिमतान्तरीया ॥ नित्यत्वमन्यदपिवस्तुनिमन्यमानाः॥ तत्किंविरुद्धघटना न भवेत्तदानीं ॥ स्वीयाश्रितेपि न मते गुणदोष चिन्ता ॥३३॥ एतेदोषानचैवात्र स्यादादे संभवन्त्यमी ॥ जात्यंतरवानिरवकाशाएवप्रतिष्ठिताः॥३४॥ स्वभाव भेदः किलवस्तुनस्तु स्वीय स्वभाव व्यतिवृत्तितोपि ॥ अतत्स्वभावात् पर कल्पनायां तदानवस्थास्वयमेतिवृद्धिं ॥ ३५॥ एकान्तनित्ये न गमागमौ स्तः न पुण्य पापे न च बन्ध मोक्षौ तथाप्यनित्यपि स एव दोष स्तस्मादनेकान्तमते न दोषः ।। ३६ ॥ स्यादित्यव्ययमेवेद मनेकान्त प्रदीपकम् अष्टास्वपिपदेष्वेव मियं तत्वचतुष्टयी ॥३७॥ नित्यानित्यत्वमेवैका-न्यासामान्यविशेषभिद्
For Private And Personal Use Only