________________
Shri Mahavir Jain Aradhana Kendra
******
www.kobatirth.org
अहंकारो हि लोकानां नाशाय न तु वृद्धये । यथा विनाशकाले स्यात्, प्रदीपस्य शिखोज्ज्वला ॥३॥ त श्लो. २९८ श्रुतशीलविनयसंदूषणस्य, धर्मार्थकामविघ्नस्य । मानस्य कोऽवकाशं, मुहूर्तमपि पण्डितो दद्यात् १ ॥४॥ प्र. श्लो. २७ मा कुरु धनजनयौवनग, हरति निमेषात् कालः सर्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं प्रविशाशु विदित्वा ॥५॥ मोहमुद्गर [ शंकराचार्य ] लो. ५
सम्पूर्णकुम्भो न करोति शब्दमर्धो घटो घोषमुपैति नूनम् । विद्वान् कुलीनो न करोति गर्व, गुणैर्विहीना बहु जल्पयन्ति ॥ ६ ॥ हितोपदेश, पृ० १३ श्लो. १९ जातिलाभकुलैश्वर्यबलरूपतपः श्रुतैः । कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥ ७ ॥ यो. प्र० ४ श्लो० १३ ज्ञानं मददर्पहरं माद्यति यस्तेन तस्य को वैद्यः । अमृतं यस्य विषायति, तस्य चिकित्सा कथं क्रियते ॥ ८ ॥ विद्ययैव मदो येषां कार्पण्यं विभवे सति । तेषां देवाभिभूतानां सलिलादग्निरुत्थितः ॥ ९ ॥ अहंकारे सति प्रौढे, वदत्येवं गुणावली । अहं कारे पतिष्यामि, समायाता त्वदंतिकम् ॥ १० ॥
सा विद्या या मदं हन्ति सा श्रीर्याऽर्थिषु दीयते । धर्मानुसारिणी या च सा बुद्धिरभिधीयते ॥ ११ ॥ उत्क्षिप्य टिट्टिभः पादमास्ते भङ्गभयाद्भुवः । स्वचित्तकल्पितो गर्वः, माणिनां क्वोपयुज्यते ॥ १२ ॥ सूक्त. पू. ३८ असूनृतस्य जननी परशुः शीलशाखिनः जन्मभूमिरविद्यानां माया दुर्गमातिकरणम् ||१२|| यो० प्र० ४, श्लो० १९ दम्भो मुक्तिलतावह्नि – दम्भो राहुः क्रियाविधौ । दौर्भाग्यकारणं दम्भो, दम्भोऽध्यात्मसुखार्गला ॥ १३ ॥ दम्भेन व्रत्तमास्थाय, यो वाञ्छति परं पदम् । लोहनावं समारुझ, सोऽब्धेः पारं यियासति ॥ १४ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir