SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra जैन सूक्त ० ॥ ३२॥ ****** www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir क्रोधो नाशयते बुद्धि-मात्मानं च कुलं धनम् । धर्मनाशो भवेत्कोपात्, तस्मात्तं परिवर्जयेत् ||७|| मा. अ. ७ श्लो. ५७ दुर्गतिप्रापणे पक्षो विपक्ष: शुभकर्मणाम् । सपक्षः आपदः क्रोधः, स केनाद्रियते ततः १ ॥८॥ हिंगुलाश, पृ० ६ श्लो. २ यो मित्रं मधुनो विकारकरणे संत्राससंपादने, सर्वस्य प्रतिबिम्बमङ्गदहने सप्तार्चिषः सोदरः ॥ चैतन्यस्य निषूदने विषतरोः सब्रह्मचारी चिरं, स क्रोधः कुशलाभिलाषकुशलैः प्रोन्मूलमुन्मूल्यताम् ॥९॥ सिं. श्लो. ४५ रागं दृशोर्वपुषि कम्पमनेकरूपं, चित्ते विवेकरहितानि च चिंतितानि । पुंसाममार्गगमनं समदुःखजातं, कोपः करोति सहसा मदिरामद ॥ १० ॥ सुभाषितरत्नसंदोह श्लो. २७ अपकारिणि कोपश्चेत्, कोपे कोपः कथं न ते १। धर्मार्थकाममोक्षाणां प्रसय परिपन्थिनि ॥ ११॥ उ० पृ० २२७ ज्वलद्रव्बलवद्भाति, कायः प्रायोऽतिकोपनः । मुखे छायान्तरे दाहः, सर्वेषां भीमदर्शनं ।। १२ ।। हि. पू. ६ श्लो. ainital विकरालरूपो, रक्तेक्षणो दशनपीडितदन्तवासाः । ॥ ३२॥ त्रागतोऽतिमनुजो जननिंद्यवेषः, क्रोधेन कंपिततनुर्भुवि राक्षसो वा ॥ १३ ॥ सुभाषितरत्नसंदोह, श्लो. ४० क्रोधस्तदह्वाय, शमनाय शुभात्मभिः । श्रयणीया क्षमैकैव, संयमारामसारणिः ॥ १४ ॥ योगशास्त्र प्र. ४, श्लो. ११. ६५ मानः माया च विनयश्रुतशीलानां त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन्, मानोऽन्धङ्करणो नृणाम् ॥१॥ यो. प्र. ४ श्लो. १२ उत्सर्पयन् दोषशाखा, गुणमूलान्यधो नयन् । उन्मूलनीयो मानहु-स्तन्मार्दवसरित्प्लवैः ॥ २ ॥ यो. प्र. ४, श्लो. १४ For Private And Personal Use Only ६५ मान
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy