________________
Shn Mahavir Jain Aradhana Kendra
***********
www.kobarth.org
कर्पूरादिभिरर्चितोऽपि लशुनो नो गाइते सौरभं, नाजन्मोपकृतोऽपि हन्त पिशुनः सौजन्यमालम्बते । देहोऽप्येष तथा जहाति न नृणां स्वाभाविकीं विस्रतां, नाभ्यक्तोऽपि विभूषितोऽपि बहुधा पुष्टोऽपि विश्वस्यते ॥३॥ यदीयसंसर्गमवाप्य सद्यो भवेच्छुचीनामशुचित्वमुच्चैः । अमेध्ययोनेर्वषुषोऽस्य शौचसङ्कल्पमोहोऽयमहो महीयान् ॥ ४ ॥ इत्यवेत्य शुचिवादमतथ्यम् पथ्यमेव जगदेकपचित्रम्, शोधनं सकलदोषमलानाम्, धर्ममेव हृदये निदधीथाः ॥५॥ शा. प्र. वसारुधिरमांसास्थियकृद्भृण्मूत्रपूरिते । वपुष्यशुचिनिलये मूर्च्छां कुर्वीत कः सुधीः ॥६॥ म. च. सर्ग १ श्लो. २५३
५२ आश्रवभावना
यथा सर्वतो निर्झरैरापतद्भिः प्रपूर्येत सद्यः पयोभिस्तटाकः ।
तथैवाश्रवैः कर्मभिः सम्भृतोऽङ्गी, भवेद्वयाकुलञ्चञ्चलः पक्किलथ ॥ १ ॥
यावत्कञ्चिदिवानुभूय तरसा कर्मेह निर्जीयेते, तावच्चाश्रवशत्रवोऽनुसमयं सिञ्चन्ति भूयोऽपि तत् । हा कष्टं कथमाश्रवप्रतिभटाः शक्या निरोध्धुं मया, संसारादतिभीषणान्मम हहा मुक्तिः कथं भाविनी ॥ २ ॥ मिथ्यात्वाऽविरतिकषाययोगसंज्ञाश्चत्वारः सुकृतिभिराश्रवाः प्रदिष्टाः ।
कर्माणि प्रतिसमयं स्फुटैरमीभिर्बन्तो भ्रमवशतो भ्रमन्ति जीवाः ॥ ३ ॥ इन्द्रियाव्रतकपाययोगजाः, पञ्च पञ्च चतुरन्वितास्त्रयः । पञ्चविंशतिरसत्क्रिया इति, नेत्रवेदपरिसङ्ख्ययाऽप्यमी ||४|| इत्याश्रवाणामधिगम्य तत्त्वम्, निश्रित्य सत्त्वं श्रुतिसन्निधानात् ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*******