________________
Shi Mahavir Jain Aradhana Kendra
बेन सूक्त ० ॥ २४॥
www.kobatirth.org.
एकोऽहं न च मे कश्चित् स्वः परो वाऽपि विद्यते । यदेको जावते जन्तुम्रियते चैक एव हि||७|| सु० [सं० पृ० ११२ ५० अन्यत्वभावना
आत्मनः सर्वमप्येतदन्यत्तदिह तत्कृते, कृत्वा कर्म भवाब्धौ स्वं, पातयत्यबुधो जनः ॥ १ ॥ यत्रान्यत्वं शरीरस्य, वैसदृश्याच्छरीरिणः । धनबन्धुसद्दायानां तत्रान्यत्वं न दुर्वचम् ॥ २ ॥ यो देह धनबन्धुभ्यो, भिन्नमात्मानमीक्षते । क्व शोकशंकुना तस्य, इन्तातङ्कः प्रतन्यते १ ॥ ३ ॥ आत्मदेहादिभावानां यद्यन्यत्वं स्फुटं ननु । ततो देहप्रहारादौ कथमात्मा प्रप्रीड्यते ॥ ४ ॥ त्रि. श्री. एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रथितानि भवान्तरे ॥ ५ ॥ यो. प्र. ४ श्लो. ६८ भिन्नः शरीरतो जीवो जीवाद्भिन्नश्च विग्रहः । विदन्निति वपुर्नाशेऽप्यन्तः खिद्येत कः कृती ॥ ६ ॥ उ. अ. २ ज्ञानदर्शनचारित्रकेतनां चेतनां विना । सर्वमन्यद्विनिश्चित्य यतस्व स्वहिताप्तये ॥ ७ ॥ शा. प्र. ५ ५१ अशुचित्वभावना
सच्छिद्रो मदिराघटः परिगलत्तल्लेशसङ्गाशुचिः, शुच्यामृथ मृदा बहिः स बहुशो धौतोऽपि गङ्गोदकैः । नाव शुचितां यथा तनुभृतां कायो निकायो महा-बीभत्सास्थिपुरीषमूत्ररजसां नायं तथा शुद्धयति ॥ १ ॥ स्नायं स्नायं पुनरवि पुनः स्नान्ति शुद्धाभिरद्भि-वारं वारं बत समलतनुं चन्दनैरर्चयन्ते । मूढात्मानो वयमपमलाः प्रीतिमित्याश्रयन्ते, नो शुध्यन्ते कथमवकरः शक्यते शोद्धमेवम् ॥ २ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
अन्यत्वभावना
॥ २४॥