________________
ShriMahavirain ApartmenaKendra
Acharya Sh Kailas
Gyamandit
जैन मुक्त ॥१३॥
****
******
१२ त्रिगुप्तयः विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तर्मिनोगुप्तिरुदाहृता ॥१॥ यो. प्र. १ श्लो. ४१ प्र.स. संज्ञादिपरिहारेण, यन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते ॥२॥ यो. प्र. १, श्लो. ४२ उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥३॥ शयनासननिक्षेपाऽऽदानचङ्क्रमणेषु यः । स्थानेषु चेष्टानियमः, कायगुप्तिस्तु साऽपरा ॥४॥ यो. प्र. १, श्लो. ४३, ४४
१३ अहिंसा न यत्प्रमादयोगेन, जीवितव्यपरोपणम् । त्रसानां स्थावराणां च, तदहिंसाव्रतं मतम् ॥१॥ त्रि. पर्व १, स. ३, श्लो. ६२२ श्रूयतां धर्मसर्वस्वं, श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि, परेषां न समाचरेत् ॥२॥ यो. द्वि. प्र. श्लो. २० निरर्थिकां न कुर्वीत, जीवेषु स्थावरेष्वपि । हिंसामहिंसाधर्मज्ञः, कासन्मोक्षमुपासकः ॥३।। यो. द्वि. प्र. श्लोक २१ । अमेध्यमध्ये कीटस्य, सुरेन्द्रस्य सुरालये । समाना जीविताकाङ्क्षा, समं मृत्युभयं द्वयोः ॥ ४ ॥ इ. स. श्लोक ३० मातेव सर्वभूताना-महिंसा हितकारिणी । अहिंसैव हि संसार-मरावमृतसारणिः ॥५।। यो. द्वि. प्र. लोक ५० अहिंसादुःखदावाग्नि-प्रावृषेण्यघनावली । भवभ्रमिरुगा ना-महिंसा परमौषधी ॥६॥ यो. द्वि. प्र. 'लोक ५१ सर्वयज्ञेषु यद्दानं, सर्वतीर्थपु यत् फलम् । सर्वदानफलं वापि, तन्न तुल्यमहिंसया ॥७॥ य. स. अ. १६ श्लोक ८ दीर्घमायुः परं रूप-मारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्व, किमन्यत् कामदैव सा ॥८॥ यो. द्वि. प्र. श्लो.५२
器蒂器鉴器崇港染染器茶器茶养养躁器绕器等器张张亲
*
For Private And Personal use only