________________
ShiMahayeJainrachanaKendra
Achan Kailas
a nmandi
带帶器盤端张然能燃燃辦酷张张张继张黎张梁然%撫
ब्रह्मचर्यमहिंसा च, सत्यमामिपवर्जनम् । व्रते चैतानि चत्वारि, चरितव्यानि नित्यशः॥२६॥ विष्णुभक्तिचन्द्रोदय अशाश्वतानि गात्राणि, विभवो नैव शाश्वतः । नित्यं संनिहितो मृत्युः, कर्तव्यो धर्मसंग्रहः ॥२७॥
वेदव्यासस्मृति, अ०४, श्लो०१९ धर्माज्जन्म कुले कलङ्कविकले जातिः सुधर्मात्परा, धर्मादापुरखण्डितं गुरुवलं धर्माच्च नीरोगता। धर्माद्वित्तमनिन्दितं निरुपमा भोगाः सुकीर्तिः सुधीः, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥ २८॥
धर्मकल्पद्रुम, पृ० १, श्लो० ३७ (द. ला.) दीर्घमायुर्यशश्चारु, शुद्धि बुद्धि शुभां श्रियम् । प्राज्य राज्यं सुखं शश्वद् दत्ते धर्मसुरद्रुमः ॥ २९ ॥
सूक्तरत्नावली, पृ० ४७, श्लो०४९६ (आत्मा. स.) स्याद्वादो विद्यते यस्मिन् , पक्षपातो न विद्यते । नास्त्यन्यपीडनं किञ्चिज्जैनधर्मः स उच्यते ॥ ३०॥ चौद्धानामृजुसूत्रतो मतमभृद्वेदान्तिनां सङ्ग्रहात् , साङ्ख्यानां तत एव नैगमनयाद्योगश्च वैशेषिकः । शब्दब्रह्मविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता, जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुवीक्ष्यते ॥ ३१॥ अध्यात्मसार जिनधर्मविनिर्मुक्तो. मा भूवं चक्रवर्त्य पि । स्यां चेटोऽपि दरिद्रोऽपि, जिनधर्माधिवासितः ॥ ३२॥
योगशाख, पृ०२६९,.श्लो० १४१ (प्र. स.) जिनशासनस्य सारो, जीवदया निग्रहः कषायाणाम्। साधर्मिकवात्सल्यं, भक्तिश्च तथा जिनेन्द्राणाम् ॥३३॥ धर्मविन्दु. जैनो धर्मो दयामूलो, जन्म सुश्रावके कुले । गुरूणां पादभक्तिव, विना पुण्यं न प्राप्यते ॥ ३४ ॥
经验类带整警器能给整整鉴業聯聚螢验號樂器盛举验非常
For Private And Personal use only