________________
Shi Mahavir Jain Aradhana Kendra
जैन सूक्त ० ॥५॥
********
www.kobatirth.org.
अद्य मे सकलं जन्म, अद्य मे सफला क्रिया । अद्य मे सफलं गात्रं, जिनेन्द्र ! तव दर्शनात् ॥ २१ ॥ दर्शनात् दुरितध्वंसः, वन्दनाद् वाञ्छितप्रदः । पूजनात् पूरक: श्रीणां, जिनः साक्षात्सुरद्रुमः ॥ २२ ॥ जिने भक्तिर्जिने भक्तिजिने भक्तिर्दिने दिने । सदा मेऽस्तु सदा मेऽस्तु सदा मेऽस्तु भवे भवे ॥ २३ ॥ नमो दुर्वाररागादि - वैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिने ॥ २४ ॥
त्वां त्वत्फलभूतान सिद्धांस्त्वच्छासनरतान् मुनीन् । त्वच्छासनं च शरणं प्रतिपन्नोऽस्मि भावतः ॥ २५ ॥ तव प्रेष्योऽस्मि दासोऽस्मि सेवकोऽस्म्यस्मि किङ्करः । ओमिति प्रतिपद्यस्व नाथ ! नातः परं ब्रुवे ॥ २६ ॥ नारका अपि मोदन्ते, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्र, को वा वर्णयितुं क्षमः ॥ २७ ॥ श्रीपाश्री धरणेन्द्र सेवितपदः पार्श्व स्तुवे भक्तितः पार्श्वेन प्रतिबोधितच कमठः पार्श्वाय कुर्वेऽर्चनम् पार्श्वात् चिन्तितकार्यसिद्धिरखिला पार्श्वस्य तेजो महत्, श्रीपार्श्व प्रकटप्रभाव इह नः श्रीपार्श्व ! सौख्यं कुरु ॥ २८ ॥ श्रीभूषण जिनवरं श्रीनाभिभूपात्मजं, सेन्द्रैर्नाकिवरैर्नरेन्द्रनिकरैर्भक्त्या प्रणुन्नैनंतम् । ज्ञानं यस्य त्रिकालवस्तुविषयं लोकोत्तराभासकम् सर्वेषां हितदं कृपारसमयं वन्दे तमादीश्वरं ॥ २९ ॥ श्रीपाश्चै तीर्थनार्थं प्रशमरसमयं केवलानन्दयुक्तं, वामेयं पार्श्वयक्षैः सुरवरसहितैः सेवितं भूरिभक्त्या ।
यस्य स्नात्राभिषेक पृथुतर कमलै निर्जरा यादवाः स्युः ख्यातं शङ्खखेश्वरं तं त्रिभूवनविहितख्यातकीर्ति नमामि ॥ ३० ॥ श्राद्धः श्रोता सुधीवक्ता, युज्येयातां यदीश ! तत् । त्वच्छासनस्य साम्राज्य - मेकच्छत्रं कलावपि ॥ ३१ ॥ वीतरागस्तोत्र नवमप्रकाश श्लो० ३
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
देव २
॥ ५ ॥