________________
SM Mahavam
A
kende
www.sobathrm.org
Acha nn
ka
en
部落等陈晓张隆染器漆器等蒂樂器樂器帶柴柴等盛装
बलं जगवंसन रक्षणक्षम, कृपा च सा सङ्गमके कृतागसि । इतीव संचिन्त्य विमुच्य मानसं, रुषेव रोषस्तव नाथ ! निर्ययौ ॥ ११ ॥ अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । भामंडलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ॥१२॥ किं कर्पुरमयं सुधारसमयं किं चन्द्ररोचिर्मयं, किं लावण्यमयं महामणिमय कारुण्यकेलिमयम् । विश्वानन्दमयं महोदयमयं शोभामयं चिन्मयं, शुक्लध्यानमय वपुर्जिनपतेर्भूयाद्भवालम्बनम् ॥१३॥ नमस्तुभ्यं जगन्नाथ ! त्रैलोक्याम्भोजमास्कर ! संसारमरुकल्पद्रो ! विश्वोद्वारणवान्धव ! ॥ १४ ॥ देव ! त्वं दुःखदावाग्नि-संतप्तानामेकवारिदः। मोहान्धकारमूढाना एकद्वीपस्त्वमेव हि ॥ १५ ॥ जिनधर्मविनिर्मुक्तो, माऽभूवं चक्रवर्त्यपि । चेटोऽपि दरिद्रोऽषि, जिनधर्माधिवासितः॥ १६ ॥ ऐन्द्र श्रेणिनताप्रतापभवनं भव्याङ्गिनेत्रामृत, सिद्धान्तोपनिषद्विचारचतुरैः प्रीत्या प्रमाणीकृता। मृतिः स्फूतिमती सदा विजयते जैनेश्वरी विस्फरन् , मोहोन्मादधनप्रमादमदिरामत्तैरनालोकिता ।। १७ ।। नेत्रानन्दकरी भवोदधितरी श्रेयस्तरोर्मझरी, श्रीमद्धर्ममहानरेन्द्रनगरी व्यापल्लताघूमरी । हर्षोत्कर्षशुभप्रभावलहरी रागद्विषां जित्वरी, मृतिः श्रीजिनपुङ्गवस्य भवतु श्रेयस्करी देहिनाम् ॥ १८ ॥ ये मूर्ति तव पश्यतः शुभमयीं ते लोचने लोचने, या ते वक्तिं गुणावलि निरुपमा सा भारती भारती । या ते न्यश्चति पादयोर्वरदयोः सा कन्धरा कन्धरा, यत्ते ध्यायति नाथ ! वृत्तमनघं ते मानसं मानसम् ।। १९॥ अन्यथा शरणं नास्ति, त्वमेव शरणं मम । तस्मात् कारुण्यभावेन, रक्ष रक्ष जिनेश्वर ! ॥२०॥
柴柴柴柴柴警察器游染染整器端端樂器带器器带密
For Private And Personal use only