SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ****** www.kobatirth.org. यः सत्वपरिणाम - उत्कर्षेण षडावलिः । जघन्येनैकसमयस्तत् सास्वादनमीरितम् ॥ ३८ ॥ युग्मम् ॥ अथ तृतीयं मिथ्यात्वमोहक्षयशमोद्भवम् । सम्यक्त्वपुद्गलोदयपरिणामवतो भवेत् ॥ ३९ ॥ वेदकं नाम सम्यक्त्वं, क्षपकश्रेणिमीयुषः । अनंतानुबन्धिनां तु, क्षये जाते शरीरिणः ॥ ४० ॥ मिथ्यात्वस्याथ मिश्रस्य, सम्यग्जाते परिक्षये । क्षायिकसम्मुखीनस्य, सम्यक्त्वान्त्यां भोगिनः ॥ ४२ ॥ युग्मम् ॥ शुभभावस्य प्रक्षीणसप्तकस्य शरीरिणः । सम्यक्त्वं क्षायिकं नाम, पंचमं जायते पुनः ॥ ४२ ॥ सम्यग्दर्शनमेतच्च गुणतस्त्रिविधं भवेत् । रोचकं दीपकं चैव कारकं चेति नामतः ॥ ४३ ॥ तत्र श्रुतोक्ततच्चेषु, हेतूदाहरणैर्विना । दृढा या प्रत्ययोत्यत्तिस्तद्रोचकमुदीरितम् ॥ ४४ ॥ दीपकं तद्यदन्येषामेव सम्यवत्वदीपकम् । कारकं संयमतपः प्रभृतीनां तु कारकम् ॥ ४५ ॥ शमसंवेगनिर्वेदानुकंपाऽऽस्तिक्यलक्षणैः । लक्षणैः पंचभिः सम्यक् सम्यक्त्वं तत्तु लक्ष्यते ॥ ४६ ॥ अनन्तानुबन्धिकपायाणामनुदयः शमः । स प्रकृत्या कषायाणां विपाकेक्षणतोऽपि वा ॥ ४७ ॥ ध्यायतः कर्मविपार्क, संसारासारतामपि । यत् स्याद्विपयवैराग्यं स संवेग इतीरितः ॥ ४८ ॥ संसारवासः कारव, बंधनान्येव बन्धवः । स संवेगस्य चिन्तेयं, या निर्वेदः स उच्यते ॥ ४९ ॥ एकेन्द्रियप्रभृतीनां सर्वेषामपि देहिनाम् । भवाब्धौ मज्जतां क्लेशं पश्यतो हृदयाता ॥ ५० ॥ तद्दुःखैर्दुखितत्वं च तत्प्रतीकारहेतुषु । यथाशक्तिप्रवृत्तिश्चेत्यनुकम्पाऽभिधीयते ॥ ५१ ॥ युग्मम् ॥ तत्त्वान्तराकर्णनेऽपि, या तत्त्वेष्वार्हतेषु तु । प्रतिपत्तिर्निराकांक्षा, तदास्तिक्यमुदीरितम् ॥ ५२ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ******
SR No.008591
Book TitleJain Sukta Sandoha
Original Sutra AuthorN/A
AuthorKailassagarsuri
PublisherKailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
Publication Year
Total Pages176
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy