________________
Shri Mahavam
na Kenda
जैन सूक्त
म्यग
नम्
综继器举举举举举黎器器器華泰泰拳拳拳拳擊器带
ततो गिरिसरिग्रावघोलनान्यायतः स्वयम् । क्षीयन्ते सर्वकर्माणि, फलानुभवतः क्रमात् ॥ २३ ॥ एकोनत्रिंशदेकोनविंशत्येकोनसप्ततीः । सागराणां कोटिकोटीः, स्थितिमुन्मूल्य कर्मणाम् ॥ २४ ॥ देशोनैकावशिष्टाब्धिकोटीकोटौ तु जन्मिनः । यथाप्रवृत्तिकरणाद्, ग्रंथिदेशं समियति ॥ २५ ॥ रागद्वेषपरिणामो, दुर्भेदो ग्रन्थिरुज्यते । दुरुच्छेदो दृढतरः, काष्ठादेखि सर्वदा ॥ २६ ॥ तीराभ्यर्णान्महापोता, इव वातसमाहताः। रागादिप्रेरिता केपि, व्यावर्त्तन्ते ततः पुनः ॥ २७ ॥ तत्रैव तत्परिणामविशेषादासतेऽपरे । स्थलस्खलितगमनान्यंभांसि सरितामिव ॥ २८ ॥ अपरे ये पुनर्भव्या, भाविभद्रा गरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणेन ते ॥ २९ ॥ अतिक्रामन्ति सहसा, तं ग्रंथि दुरतिक्रमम् । अतिक्रान्तमहाचानो, घट्टभूमिमिवाध्वगाः ॥३०॥ अथानिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकृत्य, चतुर्गतिकजन्तवः ॥ ३१ ॥ आंतर्मुर्तिक सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहेनुकमिदं, सम्यकश्रद्धानमुच्यते ॥ ३२ ॥ युग्मम् ।। गुरूपदेशमालम्ब्य, भव्यानामिह देहिनाम् । सम्यकश्रद्धानं तु यत्तद्, भवेदधिगमोद्भवम् ॥ ३३ ॥ तच्च स्यादौपशमिक, सास्वादनमथापरम् । क्षायोपशमिकं वेद्य, क्षायिक चेति पञ्चधा ॥ ३४ ॥ तत्रौपरामिकं भिन्नकर्मग्रन्थेः शरीरिणः । सम्यक्त्वलामे प्रथमेऽन्तर्मुहूर्त प्रजायते ॥ ३५ ॥ तथोपशान्तमोहस्योपशमश्रेणियोगतः। मोहोपशमजमौपशमिकं तु द्वितीयकम् ।। ३६ ॥ त्यक्तसम्यक्त्वभावस्य, मिथ्यात्वाभिमुखस्य च । तथाभ्युदीर्णानंतानुबंधिकस्य शरीरिणः ॥ ३७ ॥
**************
*
***
Private And Personal use only