________________
Shi Mahavir Jain Aradhana Kendis
************************884
www.kobatirth.org.
अनशनं द्विधा प्रोक्तं, यावजीविकमित्वरम् । द्विघटिकादिकं स्वल्पं, चोत्कृष्टं यावदात्मिकम् ॥ ७ ॥ ऊनोदरितपो द्रव्य - भावभेदात्मकं परैः । विशिष्याज्ञायमानत्वान्महाफलं निरन्तरम् ॥ ८ ॥ वर्तते नया वृत्ति - भिक्षाशनजलादिका । तस्याः संक्षेपणं कार्य, द्रव्याद्यभिग्रहाञ्चितैः ॥ १० ॥ विकृतिकृद्रसानां ययागो यत्र तपो हि तत् । गुर्वाज्ञां प्राप्य विकृर्ति, गृह्णाति विधिपूर्वकम् ॥ ११ ॥ वीरासनादिना क्लेशः, कम्पस्त्यागमयुक्तितः । तनुबाधनरूपोऽत्र, विधेयस्तत् तपः स्मृतम् ॥ १२ ॥ इन्द्रियादिचतुर्भेदा, संलीनता निगद्यते । बाह्यतपोऽन्तिमो भेदः, स्वीकार्यः स्कन्दकर्षिवत् ॥ १३ ॥ जंबुद्दीवे जह हुआ, वालुया ते चेव हुंति रयणाई । दिज्जंति सत्तखित्ते, न छुट्टए दिवसपच्छित्तं ॥ १४ ॥ जंबुद्दीवे जे हुंति, पव्वया ते चेत्र हुंति हेमस्स । दिज्जंति सत्तखित्ते, न छुट्टए दिवमपच्छित्तं ॥ १५ ॥ गीतार्थादिगुणैर्युक्तं लब्ध्वाऽऽचार्य विवेकिना । प्रायश्चित्ततपो ग्राह्यं पापफलप्ररोधकम् ॥ १६ ॥ चतुर्धा विनयः प्रोक्तः, सम्यग्ज्ञानादिभेदतः । धर्मकार्ये नरः सोऽह, विनयाहृतपोऽन्वितः ॥ १७ ॥ यथा तत्प्रतीकारो व्याधिपरीपहादिषु । वैयावृत्यं तदुद्भाव्यं, विश्रामणाशनादिभिः ॥ १८ ॥ वेयावच्च नियय, करेह उत्तमगुणे धरंताणं । सव्वं किर पडिव़ाई, वैयावच्चं अपडिवाई ॥ १९ ॥ पडिभग्गस्स मयस्स व नासह चरणं सुअं अगुणगाए । न हु वेयावच्चच्चिय, असुहोदए नासए कम्मं ॥ २० ॥ स्वाध्यायः पञ्चधा प्रोक्तः, सुमहानिर्जराकरः । तपःपूर्तिरनेन स्यात्, सर्वोत्कृष्टस्ततो हि सः ।। २१ ।। सिद्धाः सिध्यन्ति सेत्स्यन्ति, यावन्तः केऽपि मानवाः । ध्यानतपोबलेनैव, सर्वेऽपि (ते) शुभाशयाः ॥ २२ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir