________________
Shri Mahavir Jain Aradhana Kendra
जैन सूक्त
॥ ५५॥
*******
www.kobarth.org
कल्पनाजालनिर्मुक्तं, सद्भूतवस्तुचिन्तनम् । विधेयं यन्मनः स्थैर्य, मनोगुप्तिर्भवेत्त्रिधा ॥ ९ ॥ मौनावलम्बनं साधोः, संज्ञादिपरिहारतः । वाग्वृत्तेर्वा निरोधो यः, सा वाग्गुप्तिरिहोदिता ॥ १० ॥ कायगुप्तिर्द्विधा प्रोक्ता, चेष्टानिवृत्तिलक्षणा । यथागमं द्वितीया च चेष्टानियमलक्षणा ॥ ११ ॥
१९३७ वीर्याचारः
बाह्याभ्यन्तरसामर्थ्या— निवेन प्रवर्तनम् । सर्वेषु धर्मकार्येषु वीर्याचरणमुच्यते ॥ १ ॥ अणिगूहिअबलविरिओ, परकमह जो जह्नुत्तमाउत्तो । जुंज अ जहाथामं, नायव्त्रो वीरिआयारो ॥ २ ॥
१३८ तपाचारः
मूलोत्तरगुणश्रेणि – प्राज्यसाम्राज्यसिद्धये । बाह्यमाभ्यन्तरं चेत्थं तपः कुर्यान्महामुनिः ॥ १ ॥ ज्ञानमेव बुधाः प्राहुः, कर्मणां तापनात्तपः । तदाभ्यन्तरमेवेष्टं, बाह्यं तदुपबृंहकम् ॥ २ ॥ तदेव हि तपः कार्य, दुर्ध्यानं यत्र भवेत् । येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि च ॥ ३ ॥ द्वादशधा तपाचारा स्तपोविद्भिर्निरूपताः । अनशाद्याः षट् बाह्याः पट, प्रायश्चित्तादयोऽन्तगाः ॥ ४ ॥ अणसण १ मृणोदरिया २, वित्तसखेवणं ३ रसच्चाओ ४ । कायकिलेसो ५ संली-गया ६ य बज्झो तवो होह ||५|| पायच्छितं १ विणओ २, वेयावच्चं ३ तहेब सज्झाओ ४ । झाणं ५ उस्सग्गो ६ वि य, अभिंतरओ तवो होइ ॥६॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
विर्याचारः
출
॥ ५५॥