________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
'१०४
खंभात.
प्रतिष्ठितं च तत्त्व(? त्सुत)कारितप्रति(ठा)यां तपागच्छाधि(धी)शपातसाहिश्रीमदकब्बरप्रदत्तजगद्गुरुविरुदधारकभट्टा० श्रीहीरविनयसूरिपट्टालंकारभ० श्रीविजयसेनसूरिपट्टोद्योतकम० श्रीविजयतिलकसूरिपट्टांबरमास्करैर्भट्टा० श्रीविजयाणंदसूरीश्वरैः आचार्यश्रीविनयराजसूरिराजपरिकरितैः ........... ............... ॥ आचंद्रार्क नंदतादिदं श्रीधरणेद्रश्रीपद्मावतीदेवीसान्निध्यात् ॥
५६२. संवत् १६३२ वर्षे वैशाखशुदि १३ शुक्रे श्रीस्तंमतीर्थे श्रीहीरविजयसूरिप्रसादात् श्रीसंघेन श्रीपंचासरापार्श्वनाथेति नाम बिंब कारापितं श्रीमत्तपागच्छेशश्रीहीरविजयसूरिभिः आचार्यश्रीविजयसेनसूरिभिः सह प्रतिष्ठितं समस्तश्रीसंघस्य भद्रं भवतु ॥
५६३. संवत् इलाही ४६ वर्षे संवत् १६५८ वर्षे माघसित ५ सोमे श्रीस्तंभतीर्थवास्तव्यश्रीश्रीमालीज्ञातीयप० वनिआराजिआभ्यां स्वश्रेयसे श्रीस्तंभनकपार्श्वनाथर्बिबं कारितं प्रतिष्ठितं श्रीतपागच्छे महानृपप्रतिबोधकसुविहितभ० श्रीहीरविजयसूरितत्पट्टोद्योतकारकभट्टारकश्री श्रीविजयसेनसूरिभिः आचार्यश्री ५ श्रीविजयदेवसूरिउ० श्रीविमलहर्षग० उ० श्रीकल्याणविजयग० उ० श्रीसोमविनयग० प्रमुखपरिवारपरिकरितैः ॥
५६४. श्रीमन्नृपविक्रमसमयातीतसंवत् १४९१ आसाढादि ९२ वर्षे शाके १३५७ प्रवर्त्तमाने मार्गशीर्षशुक्लत्रयोदश्यां १३ तिथौ शनिवारे कृत्तिकायां घडी ३८ अपरांतरोहिणीनक्षत्रे सिद्धियोगे रात्रिघ० १२ समये सिंहलग्ने वहमानेऽस्यां शुभग्रहावलोकितकल्याणवतीवेलायां श्रीराजगच्छे श्रीराजप्रमुगुरुसंताने श्रीहेमप्रभसूरिसंताने श्रीहरिप्रभ. सूरिपट्टे श्रीभट्टारकसंताने श्रीमेरुचंद्रसूरिजीवितस्वामिमूर्तिः ॥ चिरं जयतु शुभं भवतु ॥ ( जमणी बाजू ) श्रीमलयचंद्रसूरिमूर्तिरिय ॥ (डाबी बाजू ) श्रीमुनितिलकसूरिमूर्तिरियं ॥
For Private And Personal Use Only