________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनप्रतिमालेखसंग्रह.
mer सुंदरादरमाहूतैः श्रीअकबरभूभुना । द्राग् यैरलंकृतं लाभपुरं पद्ममिवालिभिः ॥ १६ ॥ श्रीभकब्बरभूपस्य सभासीमंतिनीहृदि । यत्कीतिमौक्तिकीभूता वादिवृंदजयाब्धिजा ॥ १७ ॥ श्रीहीरविजयाह्वानसूरीणां शाहिना पुरा । अमारिमुख्यं यद्दत्तं यत्सात्तत्सकलं कृतं ॥ १८ ॥ अर्हतं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तम
साक्षात् शाहिअकब्बरस्य सदसि स्तोमैर्गवामुद्यतैः । यैः संमीलितलोचना विदधिरे प्रत्यक्षशूरैः श्रिया
वादोन्मादभृतो द्विजातिपतयो भट्टा निशाटा इव ॥ १९ ॥ सैरभी सौरभेयी च सौरभेयश्च सैरभः। न हंतव्या न च ग्राह्या बंदिनः केऽपि कर्हिचित् ।। २० ॥ येषामेष विशेषोक्तिविलासः शाहिनामुना । ग्रीष्मतप्तभुवेवाब्दपयःपूरः प्रतिश्रुतः ॥ २१ ॥ युग्मम् ॥ जित्वा विप्रान् पुरः शाहेः कैलास इव मूर्तिमान् । यैरुदीच्यां यशःस्तंभ: स्वो निचख्ने सुधोज्ज्वलः ॥ २२ ॥ इतश्चउच्चैरुच्छलिताभिरूमिततिभिर्वारांनिधेबंधुरे. __ श्रीगंधारपुरे पुरंदरपुरप्रख्ये श्रिया सुंदरे । श्रीश्रीमालिकुले शशांकविमले पुण्यात्मनामग्रणी
रासीदाल्हणसी परीक्षकमणिनित्यास्पदं संपदा ॥ २३ ॥ आसीदेल्हणसीति तस्य तनुनो जज्ञे धनस्तत्सुतस्तस्योदारमनाः सनामुहलसीसंज्ञोऽभवन्नंदनः ।
For Private And Personal Use Only