________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
योऽपूरयत्कामितमङ्गभाजा. चिन्तामणिश्चिन्तयतामिवाशु | विघ्नौघकाराङ्गणसेविनश्च,
निजप्रभावेण चकार मुक्तान्. यो दिव्यलब्धिप्रथितः पृथिव्यां, समुद्दधारेह दयार्द्रचेताः । धर्मक्रियादीनमतीनतीता
न्नतिप्रवीणान् भवतापतप्तान्. योऽक्षीणलब्धिप्रचितस्वभावः, श्रियाऽक्षयाऽऽनन्दविभूषिताङ्ग्या ।
नित्यं समासेवितपादपद्मः, सम्यक्प्रभाभावितमानसो हि.
यन्नामाक्षरकीर्त्तनेन मनुजाः प्रातर्मनोवाञ्छितं, सेवन्ते निखिलापदो विषसमा व्यावर्त्तयन्ति क्षणात् । प्रत्यक्षं कलयन्ति दुर्लभतरं वस्तुप्रकाण्डं परं, दुष्टग्राहसमाकुलं जलनिधिं पश्यन्ति कासारवत्.. यदीयनामस्मरणेन नूनं, नश्यन्ति भूतादिमहोपसर्गाः । रुजार्जिताः स्वर्गसमानदेहा
दुःस्वप्नभाजोऽपि शुभान्विताः स्युः ..
यदीयनाम्नि स्मृतिगोचरं गते, व्यालः करालः सुममालिकायते विरोधिवर्गः शुभकिङ्करायते, पञ्चाननौघः स्वयमाविकायते.
३०
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
।।२६।।
।।२७।।
।।२८।।
।।२९।।
1130 ||
।। ३१ ।।