________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
........
अथाऽऽप्तसर्वस्व इवाऽतिहृष्टः, पूर्णात्मकामश्च विभुप्रभावात् । स्मरन्गुणाँस्तीर्थकृतां स भव्यानवातरद् भूरिमुदागिरीन्द्रात्..
।।२०।। तीर्थप्रभावेण पवित्रिताऽऽत्मा, ज्ञानप्रभाभासुरदिव्यदेहः । अक्षीणलब्धिप्रथितप्रभावो, निवर्तमानः स महानुभावः............. ....।।२१।।
वह्यभ्रवाणेन्दु(१५०३)मितांस्तपस्विनः, प्रपेदिवान् ध्याननिमग्नचेतसः । मार्गस्थितान् गन्तुमशक्तदेहानष्टापदं तीर्थकृतां दिदृक्षया.
।।२२।। तपः प्रभावेण विराजमानास्त्यक्ताऽशना निर्मलचित्तभावाः । स्थिराशयास्तत्र यियासवस्ते, सर्वे हि वाञ्छन्त्यनुकूललाभम्.
... ।।२३।। समीक्ष्य तत्तापसवृन्दमाराद्व्रतीन्द्र इष्टार्थविधानदक्षः । सभाजितस्तैर्निजदृष्टिल:स्तस्थौ क्षणं तत्र परोपकृत्यै.
।।२४।। महामहिम्नां वरमास्पदं यो, निदानमेकं सुखसम्पदानाम् । नानाऽर्थलब्धिप्रभवो वभूवप्रत्यक्षमूर्तिः शुभभावनानाम्..
....... ।।२५ ।।
२२
For Private And Personal Use Only