________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुरा यथा गौतम! तापसादिकान, मिथ्यामतादुद्धरसि स्फुरत्कृपः । तपस्क्रियासंयमयोगदुर्बलं, भवावटान्मामपि तद्वदुद्धर............ ।।२१।।
भवाद् विभेम्युत्कटदुःखराशेर्धर्तुं द्विधेशे न च योगशुद्धिम् ।
गतिर्न मेऽन्यास्ति ततः शिवेच्छोस्त्वमेव तद्धेहि कृपां मयीश! ।।२२ ।। भावद्विषो ये निहतास्त्वयेश!, ते व्यन्तरीभूय भवद्रुषेव । निरौजसं त्वत्कुलजं समीक्ष्य, मां पीडयन्तीति मुनीन्द्र! रक्ष..... ।।२३।।
गणिवर! तव सद्गुणैकलीनं, भवतु मनो मम गौतमाविरामम् । विजहतु तदिमे कषायमुख्या, रिपुनिकराश्च मयीति सुप्रसीद ।।२४ ।। एवं श्रीगणनाथ! गौतमगुरो! स्तुत्वा मयाऽभ्यर्थ्यसे, नाम्नाऽहं मुनिसुन्दरोऽभवमथो कुर्याः प्रसादं तथा । स्यां सर्वज्ञ! यथार्थतोऽपि विशदज्ञानादिरत्नत्रयाललब्ध्वा कर्मजयश्रियं शिवपुरे राज्यं लभेचाचिरात्... ........ ।।२५।। ७. श्री जिनप्रभसूरिप्रणितं मन्त्रगर्भितम्
श्री गौतमस्वामि-स्तोत्रम् ॐनमस्त्रिजगन्नेतु-र्वीरस्याग्रिमसूनवे । समग्रलब्धिमाणिक्य-रोहणायेन्द्रभूतये...........
पादाम्भोजं भगवतो, गौतमस्य नमस्यताम् । वशीभवन्ति त्रैलोक्य-सम्पदो विगतापदः..
।।२।। तव सिद्धस्य बुद्धस्य, पादाम्भोजरजःकणः । पिपर्ति कल्पशाखीव, कामितानि तनूमताम........ ... ।।३।।
श्रीगौतमाऽक्षीणमहानसस्य तव कीर्तनात् । सुवर्णपुष्पां पृथिवी-मुश्चिनोति नरश्चिरम्....
....... ।।१।।
...... ।।४।।
For Private And Personal Use Only