________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३१ )
सूरिवाचकसाधूनां साध्वीनां च विवृद्धये । योग्योपायाः सदा सेव्या, जैनै धर्मानुरागिभिः॥ २२२ ॥ वित्तविद्यादिसाहाय्यं कृत्वा जैनैः स्वशक्तितः । जैनानामुन्नतिः साध्या दौर्भाग्यनाशपूर्वकम् ॥ २२३ ॥ देया कन्यास्तु जैनेभ्यः, जैनभक्ति प्रकर्षतः उद्धर्त्तव्याः सदा जैना, जैनैः कष्टादितः स्फुटम् ॥२२४॥ दत्ते मिथ्याविने कन्यां जायते स च नारकः । कोटिभवेषु चाण्डालो, धर्मद्रोही पदे पदे ॥२२५॥ जैनैः सन्तानवृद्ध पर्थे, ग्राह्याः कन्या विधर्मिणाम् । पश्चाद् धर्मयुताः कार्याः, सम्यकत्वादिविभूषिताः २२६ पञ्चमाककाले हि, वात्सल्यं कर्मनाशकृत् । सेवाधर्मः सदा सेव्यो, जैनैर्धर्मप्रवृद्धये सूरिवाचकसाधूनां साध्वीनां दर्शनं शुभम् । दुर्बुद्धिनाशकं शीघ्रं सर्वमङ्गल कारणम् अरुचि न कदा कार्या, साधूनां दर्शने जनैः ।
॥२२७॥
॥२२८||
र्न
For Private and Personal Use Only