________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विधमहासङ्घः, सेक्यः पूज्यो महाजनैः ॥२१४॥ चतुर्विधमहासङ्घ-वृद्ध्यर्थ क्षेत्रकालतः । उत्सगैरपवादेव, कर्तव्यं सर्वस्वार्पणम् ॥१५॥ जैनधर्मप्रचारार्थ, साधुवावकसूरिभिः । साध्वीभिश्च सदोपायै-वर्तितव्यं व्यवस्थया ॥२१६॥ आज्ञाभङ्गो न सूरीणां, कर्तव्यो वै कदाचन । परस्परं वर्तितव्यं, कृत्वैक्यं सर्वसूरिभिः ॥२१७॥ प्राणान्तेऽपि न कार्या वै, जैनशासनहेलना । जैनशासनशोभाथै, कार्य सर्व विचक्षणैः ॥२१८॥ युद्ध्वा परस्परं देषा-ज्जैनशासनहेलना । कदापि नैव कर्तव्या, धर्मभेदमतान्तरैः ॥२१९।। शासनीयाः सदा दुष्टा, जैनधर्मस्य निन्दकाः। नास्तिका हि सदा त्याज्या, जैनधर्मस्य दक्षकाः२२० सूरीणामग्रणीत्वं च, कृत्वा संमेलनं शुभम् । चतुर्विधस्य सङस्य, कर्तव्यमुन्नतिमदम् ॥२२१॥
For Private and Personal Use Only