________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२) क्रियते तन केनापि, सर्वज्ञेन प्रवेदितम् ॥७९॥ मेरुसर्षपवद् बोध्य-मन्तरं साधुश्राद्धयोः।। सम्मति साधुसङ्घस्य, रक्षणे धर्मरक्षणम् ॥८॥ क्षेत्रस्य जैनधर्मस्य, रक्षका: साधवः स्फुटम् ।। साधुसङ्घ विना नाशो, जैनधर्मस्य जायते ॥८॥ भक्तिर्गौतमवत् श्रेष्ठा, कर्तव्या पूर्णभावतः । नास्तिवं न कदा कार्य, साधुसङ्केषु सर्वथा ॥८२॥ पूर्णश्रद्धायुता भक्तिः, सदा फलति जन्मिनाम् । दोषदृष्टिं परित्यज्य, कर्तव्यं साधुसेवनम् ॥३॥ मतक्लेशं कदा दृष्ट्वा, साधूनां च परस्परम् । अश्रद्धा चारुचि नैव, कर्तव्या श्रावकैः कदा ।।८४॥ श्रद्धाभ्रष्टे महापापं, मिथ्यात्वस्य प्रवर्धनम् । मुक्ति नैव भवत्येवं, ज्ञात्वाधार्या रुचिः सदा ॥८५|| धर्मकर्मप्रकुर्वाणा, जीवद्वेदाच साधवः । सर्व समये मोक्षार्थ, सेव्या हि साधवस्तदा ॥८६॥
For Private and Personal Use Only