SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1984-1103+-*.03+0840-*-*-*-*-* www.khatirth.org ॥ अथचतुर्थोल्लासःप्रारभ्यते ॥ श्रीवीरमिष्टदं वन्दे, केवलज्ञानभास्करम् (सेवधिम् ) । सुधाऽनुष्ठान संप्राप्तिर्येन संपद्यते नृणाम् ||१|| यत्प्रसादाद्भवत्याशु, साष्टाङ्ग योगसंगतिः । अगम्यगतिकोयोग-स्तद्वेदी कोऽपि पुण्यवान् ॥२॥ बाह्यक्रिया कष्टरूपा, भवशर्मविधायिनी । आन्तरिकक्रिया शुद्धा, चिदानन्दं तनोत्यलम् ||३|| बाह्ये परिग्रहे त्यक्ते, न कोऽपि शुद्धिमान्भवेत् । विमुक्तकञ्चुको नागो - निर्विषो नैव जायते ॥ ४ ॥ श्रात्मारामः सदा तिष्ठे-त्सैवालौकिक भेदवित् । उदरार्थं हि यत्कष्टं, मिथ्याखेदविधायि तत् ॥ ५॥ कुमतिर्यो बलाद्बुद्धेः, श्रुतार्थं गोपयेन्मुधा । ज्ञानी तु तं नरं वेत्ति, जैनागमप्रलापिनम् || ६ || अजस्रं यो जिनस्याज्ञां मन्यते मतिमान्नरः । गोष्पदप्रो भवेत्तस्य, भवोदन्वामहोत्कटः ||७|| बाह्यक्रियां प्रकुर्वाणो योऽन्तः क्रियां समाचरेत् । चन्द्रराज इव चोएयां, लभते स शुभाङ्कुरान् ||८|| भव्याः ? शृण्वन्तु चन्द्रस्य, तूरीयोल्लासमुत्तमम् । माधुर्यमस्य चास्वाद्य, सकषायोऽमृतायते ॥९॥ यथा धर्मश्चतुर्थोऽस्ति, यथा ध्यानं चतुर्थकम् । तथाऽयं तुर्य उल्लासः, शिवदो ज्ञानसेवधिः ।। १० ।। नृपदानेन संतुष्टा नटाः पत्री तथैव च । इतोऽग्रे स्वाद्यतां भव्यैः, सत्कथारस उत्तमः॥ ११॥ परस्परनिमग्नचेतसोरुभयोर्दम्पत्योर्दृष्टिविघातंक कोऽपि समर्थोनाभूत्, विविधालङ्कारैः सत्कृता नटाच नृपाग्रे विस्मयावहान्याख्यानानि वर्णयामासुः तच्छ्रवणेन प्रसन्नमानसोनृपतिः पञ्जरस्थंचरणायुधंविलोक्य तस्मिन्प्रेमवानभूत् । अन्ये पौरजना अपि स्नेहदृष्ट्या तमेव वीचितुं लग्नाः । नृपतिः पञ्जरंस्वान्तिकंसमानाय्य कुकुटञ्च बहिर्निष्कास्य निजोत्सङ्गेऽस्थापयत् सोऽपि प्रेमलायाः शरीरस्पर्शात् मोदमानस्तद्धृदयगेहं प्रविवितुरिव तद्वचसि चञ्चुप्रहारान्कर्त्तुप्रवृत्तः । रोमाञ्चकञ्चुकंचित मा For Private And Personal Use Only Acharya Shri Kaassagarsun Gyanmandr *****••*-******************
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy