SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan मनांसि सत्वरम् ।। १॥ कुक्कुटाज्ञानुरक्ताय, नटराजाय भूपतिः । प्रसन्नमानसोऽदासी-द्धनं भूरि जनैः सह ॥२॥ ततोनटाधिपं राजा, पपृच्छ विनयाश्चितः । ताम्रचूडस्त्वया कस्मा--समासादित एष वै ।। ३ ।। नटाधिपस्तद्वृत्तान्तमवदत्-चन्द्रराजमिमं विद्धि, नृपते ! पचिरूपिणम् । तद्विमातुरिदं कर्म, कर्मतन्त्रा हि देहिनः ॥ १॥ तद्वत्तान्तं निशम्याह, बङ्गराजो नटाधिपम् । चन्द्रराजस्तु संबन्धी, वर्त्तते मे क्रमागतः ॥२॥ इतिसंभाष्य भूभर्ता, ताम्रचूडं प्रणम्य च । हेमरत्नगजाश्वादि, प्राभृतीकृतवान्मुदा ॥३॥ ततोऽवदत्प्रजेशस्तं, वीरसूश्चन्द्रभूपते ! किङ्करं मां विजानीहि, भवत्सेवापरं सदा ॥ ४ ॥ मद्भाग्येनैव सञ्जातं, दर्शनं तव दुर्लभम् । अद्य मे सफलं जन्म, पक्षित्वं दुःखदं परम् ।। ५ ।। एवमाभाष्य तस्मिन्विरते गृहीतसत्कारा नटाःसपरिवारा अन्यत्र प्रययुः । वङ्गाधिराजोनिजसीमानंयावत्ताननुगम्य तैर्विसृष्टःस्वस्थानमाजग्मिवान् । ततःक्रमेण पर्यटन्तोनटाःसिंहलद्वीपंजग्मुः। इतिश्रीचन्द्रराजचरित्रे तृतीयोल्लासेऽष्टमः सर्गः ॥ ८॥ तत्रास्ति सिंहलपुरं परमं विशालं, राजन्ति यत्र बहवो धनिनां निवासाः। यच्चत्वराणि मणिहेममयानि शश्वत् ,-संवीक्ष्य विस्मयमवाप हि निर्जरेशः ॥१॥ तन्नगरशोभानिरीक्षमाणास्ते बायोद्यानभूमौ निवासंचक्रुः। नाट्यकलायांतेषांप्रसिद्धिसमाकये सिंहलनरेशस्तान्समाकार्य नाटकंकर्तुसमादिशत् । प्रमाणीकृतनृपादेशास्तेऽपि पञ्जरपुरःसरा नृपान्तिकमीयुः।। लब्धनाट्यकलादाच्या-दीव्यनेपथ्यधारिणः । अपूर्वखेलनेनाशु, चमत्कारमजीजनत् ॥१॥ नरेन्द्रोऽपि प्रसन्नोऽभूत्प्रजालोकसमन्वितः। नव्या कलावराङ्गी हि, कस्य नो रञ्जयेन्मनः ॥२।। ततस्तेन महीनाथेन तद्दिनलब्धपश्चशतपोतानांशुल्कंतस्मै नटाधीशाय वितीर्णम्-सिंहलाधिपसत्कीति, वर्णयन्तस्ततो नटाः । प्रमोदभारभुमाङ्गा, निजावासं प्रपेदिरे ॥१॥ इतः सिंहल For Private And Personlige Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy