SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ बहिःस्थित एव तमध्यापयति, पुनर्युष्माकंतदर्शनाभिलाषाभूरुहोऽवकेशिभावकथं न गमिष्यति ? प्रभाकरप्रभाऽपि तमवेचितुमिव परितःप्रसरन्ती विफलनिजसमीहिता दिनान्ते पश्चिमाशांसवमाना तदिदृशुर्गृहीततपोव्रता सागरान्तर्निमञ्जतीव । ततोभवदीयाऽऽशावल्ली मरुस्थल्यामिवाधुनिकस्थित्यांविकासभा न गमिष्यति, इत्थंबोधिता अपि ते कुमारदर्शनमेव प्रधानं कार्यमन्यमानास्तदाग्रहनात्यातुः । ततस्तद्दर्शनै कपरायणांतांमन्त्रिचतुष्टयींमद्गृहमहमनैषम् , ततोबहुलजलैर्विहितमजनाःसुरभिचन्दनादिना विलितगात्रा महार्हवसनाभरणैर्विभूषिताङ्गा विविधप कामशालिदालीव्यञ्जनादिभिर्जनितवृप्तयस्ते परमसन्तोषमवापुः, अनन्पमणिरत्नादिप्रदानेन च तेषांमानसंप्रसन्नतरंविहितम् । तथापि तैःकुमारदर्शनाग्रहोनाऽमोचि, प्रत्युत वर्द्धमानएवादृश्यत, पुनस्ते मामवोचुः-मन्त्रिन् ? कुमारस्वरूपंदृष्दैव वयंत्रजिष्याम इति त्वं निःसंशयमवहि, ततोमयाभाणि, मन्त्रिवर्याः ? असदाग्रहविमुञ्चत, अत्युत्सुकतामाजां कार्याणि न सिद्ध्यन्ति, कुमारस्वरूपंदेवतानामपि विलोभनीयंप्रशस्यतरं विद्यते, भुवनत्रयेऽपि तत्स्वरूपतुलना न कोऽप्यर्हति, यया युष्मदधिपतिमानसम सन्तुष्टंभवेत्तादृशींप्रवृत्तिवयंकथंकरिष्यामः , सप्तभिर्गलनकैलितपयोऽस्मभ्यंरोचते, न वयंमृषाबादंबेमहे, सर्वथा निर्मायिनोऽस्माञ्जानीत, मायाविधानेन युष्मान्वञ्चयितुंनास्माकमु. पक्रमः । प्रतारणीयाश्चेदन्ये बहवोविद्यन्ते, अत्रतु सत्यवाव विधीयते, सर्वजनविश्रुतमाररूपंकुमारं के न जानन्ति, दीव्यरूपवैभवःकुमारोदिगन्तकीर्तिरनेकदेशेषु प्रशस्यते, अस्माभिर्यद्भवदीयं वचनं प्रतिपन्नतत्सम्यविचार्यैव स्वीकृतम् , अस्मिन्कार्ये भवांप्रयासः सकलजनश्लाघनीयोपविष्यति, यद्यप्ययंसम्बन्धोबलैश्वर्यविशेषशालिनामस्मत्स्वामिनायोग्योनास्ति तथापि शुभशकुनबलेन समागतानां युष्माकं वचनमस्माभिर्नव्यलोपि, तस्मादेवाऽयंसम्बन्धोजातः, शुभदेवेनैव भवतां For Private And Persone ly
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy