________________
ShriMahavir JanArchanaKendra
Acharya:shkailassagarsunGyanmandir
॥चंद्रराजचरित्रम् ॥
| द्वितीयोवासप्रथमः सर्गः॥
॥४७॥
| यत्र संचरन्ति तत्र निधानानि स्वयमेव प्रकाशन्ते, निःस्नेहानामपिप्राणतोऽप्यधिकतरास्तेवल्लभा भवन्ति, तत्प्रभावो| भाग्यैकमूलः, भाग्यवतोव्यसनानि परित्यजन्ति, विपदोऽपि संपदायन्ते, देशान्तरेष्वपि तेषामुपद्रवा न भवन्त्येव,
तद्यथा-भाग्यं फलति सर्वत्र, नच विद्या नच पौरुषम् । समुद्रमथनालेभे, हरिर्लक्ष्मी हरोविषम् ॥ १॥
सुकृतशालिनां सर्वत्र सत्कृतिःसुलभा, दुर्लभा पुनरसत्कृतिः, यत्र पुण्यवतां सञ्चारस्तत्र पूज्यपूजाव्यतिक्रमोनिरास्पदः, मायिनोऽपि निर्माया भवन्ति, कुटिलेष्वप्यकौटिन्यसंमतंनीतिवेदिनामितिसदाचारः सुकृतप्रभावेणैव प्रतीयते । तस्मात्सत्पुरुषमहिम्ना सकलसम्पदः सुस्था भवन्ति । अथसिंहलनरेशश्चन्द्रराज प्रत्यवदत् , महाराज ! सर्वथा तेऽनामयं कच्चित् ? स्वामिन् ! त्वामन्तर्यामिनं जानामि, त्वमेवाऽस्माकं शिरोमणिः, नराधीश ! चातकः पयोधरमिव वत्सश्चनिजमातरमिव त्वदर्शनं प्रतीक्षमाणा मुहूर्त संवत्सरं जानन्तोवयं स्थिताः । अद्यदिनं श्रीमता समागमनेन सुदिनं जातम् । सत्पुरुषाणां समागमः पुण्यबलेनैवावाप्यते, अहो ! सतां दर्शनं सुकृतं जनयति, दयतिच दुरितानि, वयमत्र युष्माकं प्रतिपत्ति किं कुर्मः ! यतोदातृगणलब्धप्रशस्तयोभवन्तोजगत्रये संभावितकीर्तयः श्रूयन्ते, युष्मदन्तिकेऽस्मादृशां का गणना! तथाप्यस्मदीयनिकेतनं यदा पावयिष्यध्वं तदा वयंग्रामनगरादिकोपचारेणत्वदुपचितिसंपादयिष्यामः । इदानी देशान्तरस्थिता वयं सर्वे समानस्थितिकाः । अत्र तु दीनवत्सा काचिजननी तस्मिस्तुष्टा वामात्रेण वात्सल्य दर्शयति तथा वयमपि प्रणिपातेन त्वत्सेवाभक्तिंकुर्मः। योग्यावसरे वयं निजकर्त्तव्यविमुखा न भविष्यामः । इत्थं सिंहलराजवचाप्रपञ्चं समाकर्ण्य चन्द्रराजः प्राह, नराधीश ! चन्द्रराजभ्रमेण किमेवं मुधा मां सत्करोषि नाहं चन्द्रराजः, अहन्त्वेकाकी देशान्तरनिवासी तवातिथ्यं
॥४७॥
For Private And Personlige Only