SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। मीमसेन नृपचरित्रस्य ॥२॥ श्वरोबाचयामास, विक्रम संवत् १९८३ विद्यापुरे (विजापुर) चातुर्मास्यांस्थितः सूरीश्वरः सङ्काप्रहेण प्रस्तुतचरितस्य वाचनां व्यवधत् तस्मिन्समये विस्तरशोरचितमिदं रूपान्तरं प्रत्यपद्यत, अतो प्रन्थकर्तुः सरिशब्देन व्यवहतिर्नाऽनुचिता, गतचातुर्मास्यां साणंदवासि श्रीसंघाग्रहेण श्रीमदुत्तराध्ययनमिदं चरितश्च मया व्याख्यातुं प्रारभ्यत, श्रोतृणाञ्चैतच्चरित्रमुद्रापणेऽतीवोत्कण्ठा समुत्पन्ना, एतन्मुद्रापणं all साणंदवासि श्रीसागरगच्छसंगृहीतज्ञानद्रव्यसहायेन समजनि । सहायदातारश्च पुण्यभागिनो भवन्ति-- ज्ञानस्य ज्ञानिनां चैव, प्रशंसा प्रेमधारकाः । सुसहायप्रदातारो-लभन्ते पुण्यमुत्कटम् ॥ १॥ तद्विरोधिभिश्च--ज्ञानस्य शानिनाश्चैव, निन्दाविद्वेषमत्सरैः । उपघातैश्च विप्नैश्च, ज्ञाननं कर्म बध्यते ॥२॥ एतद्ग्रन्थकारसूरिणाऽन्येऽपि प्रन्थाः प्रणीतास्तेषां कियन्तो मुद्रापिता वाचकानां इस्तगताः साम्प्रतं विलसन्ति । अवशिष्टाः केचित् समयमासाद्य प्रकाशमेष्यन्ति, चरित्रमयमिमं प्रन्थं वाचयित्वा विद्वांसोग्रन्थकर्तुः प्रयास सफलयन्तु । बमस्थत्वाद् प्रन्थकारस्य विशोधकस्याऽक्षरयोजकानाच कुत्रचित् स्खलना जाता चेद्धीधनैर्विशोध्य वाचनीयम् । कुत्रचिदक्षरादिस्खलना जाता सा शुद्धिपत्रं विलोक्य समाधेया। यतः-गच्छतः स्खलनं कापि, भवत्येव प्रमादतः । इसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥१॥ | इति प्रार्थयते-व्याख्यानवाचस्पतिश्रीमद्-भजितसागरसूरीश्वरचरणसरोजचञ्चरीकायमाणः, मनिहेमेन्द्रसागरः साणंदपत्तनस्थितः। वीर सं.-३४५७ विक्रम सं. १९८६ बुद्धि सं. ६ फाल्गुनशुतृतीयायां भृगुवासरे. ॥२॥ For Private And Pessoa
SR No.008549
Book TitleBhimsen Nrup Charitra
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherSagargaccha Jain Sangh Sanand
Publication Year1931
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy