________________
Shri Mahavir Jain Aradhana Kendra
श्री मीमसेन
नृपचरित्रस्य
॥ १ ॥
+++++******+*3*K+++
www.kobatirth.org
किञ्चित्प्रास्ताविकम् ॥
==
धर्मशास्त्रविनोदेन, समयोयाति धीमताम् । व्यसनेन च मूर्खाणां, निद्रया कलहेन च ॥ १ ॥
Acharya Shri Kailassagarsun Gyanmandir
For Private And Personal Use Only
*++++******+**
प्रस्तावना ।
सुविदितमेतत्प्रभाप्रभावशालिनां विदुषामिहखलुजन्मजराऽऽमयमरणाऽऽदिदुःखप्रचुरे चतुर्गतिमयभवार्णवे पुनः पुनः परिभ्रमणं कुर्वन्तो निखिलदेहिनः सुखाऽभिलाषिणो भवेयुः । तच्चाऽन्याबाधमनैकान्तिकमखिलकर्मक्षयादनन्तचतुष्टयप्राप्तावेव प्राप्यते, तत्प्राप्तियाऽऽत्मनः परमात्मदशायामेव जायते, तत्प्राप्तौ च हेतुतया चत्वारएवाऽनुयोगास्तीर्थ करै रातैरुपदिष्टाः । तद्यथा-कथाऽनुयोगो गणिताऽनुयोगोद्रव्यानुयोगञ्चरण करणाऽनुयोगश्चेति तेष्वपिचरण करणाऽनुयोगोऽनान्तरीयकारणं समस्ति " सम्यग् ज्ञानदर्शनचारित्राणि मोक्षमार्ग: " " सम्यग् ज्ञानक्रियाभ्यां मोक्षः " इत्यायनेकवचनप्रामाण्यादस्याऽनुयोगस्य तद्विषयकत्वात्, अन्येषामनुयोगानामेतदर्थकत्वाच । एतदनुयोग समर्थका बहवोग्रन्थाः सिद्धान्तसागरात्समुद्धृत्य रचिता रचनाचतुरैः सूविय्यैः स्वपरोपकारैककुशलैस्तद्विषयविशेषपुष्टिकराः । तथैव द्रव्याऽनुयोगगणिताऽनुयोगप्रतिपादकानि शास्त्राणि प्रवरशेमुषीशालिभिराचार्यपुङ्गवैर्विशेपतः प्रतिपादितानि साम्प्रतं विलोक्यन्ते । एवं कथाऽनुयोगोऽपि विविधरचनाभिर्बहुधा व्यावर्णितः पूर्वाऽऽचार्यैः । तेषामयं चरिता- * ऽनुयोगः सर्वेषां मतिमतां सुगमत्वात्सुबोधकत्वाच्च जनेषु मुख्यता मावहति, यतोभिन्नप्रवृत्तिमनुशीलयतां जनानां स्वाभाविकानि चरित्राणि
॥। १ ६